Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 134
________________ ९ अध्यायः ] काव्यालंकारः F १२९ तेजखिनेति । अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्य च विरोधेऽप्येकत्रावस्थितिः । अत्र लोद्रव्यस्य तरणक्रियायाश्च विरोधेऽवस्थितिः ॥ सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः । अभिनव कदम्बधूली धूसरशुभ्र भ्रममराः ॥ ३९ ॥ सेति । अत्र कोमलगुणस्य दलनक्रियायाश्च विरोधेऽप्यवस्थितिः । अत्र भ्रमरजातेः शुक्लत्वगुणस्य च विरोधः ॥ वरतनु विरुद्धमेतत्तव चरितमदृष्टपूर्वमिह लोके । मनासि येन नितरामबलापि बलान्मनो यूनाम् ॥ ४० ॥ वरतन्विति । अत्राबलत्वजातेर्मथनक्रियायाश्च विरोधः ॥ अन्ये तु भेदाश्चत्वारः सन्तीत्युक्तम् । तेषामुदाहरणान्याह - अविवेकितया स्थानं जातं न जलं न च स्थलं तस्याः । अनुरज्य चलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः ॥ ४१ ॥ अविवेकितयेति । अत्र द्रव्ययोर्जलस्थलयोर्विरोधित्वादेकस्याभावेऽवश्यमेवेत रस्यावस्थानेन भाव्यम् । अत्र चोभयोरप्यभाव उक्तः ॥ न मृदु न कठिणमिदं मे हतहृदयं पश्य मन्दपुण्यायाः । द्विरहानलतप्तं न विलयमुपयाति न च दादर्थम् ॥ ४२ ॥ नेति । यदि मद्धृदयं मृदु भवेत्ततो विरहाग्नितप्तं जतुवद्विलीयेत । कठिनं स्यात्ततो घनवद्द्रढिमानमानुयादिति । अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः ॥ नास्ते न याति हंसः पश्यन्गगनं घनश्यामम् । चिरपरिचितां च बिसिनीं खयमुपभुक्तातिरिक्तरसाम् ॥ ४३ ॥ नेति । यथा पूर्व गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति ॥ न स्त्री न चायमस्त्री जातः कुलपांसनो जनो यत्र । कथमिव तत्पातालं न यातु कुलमनवलम्बितया ॥ ४४ ॥ नेति । कुलपांसनः । कुलनाशन इत्यर्थः । अत्रापि स्त्रीत्वपुरुषत्वजात्योर्विरुद्धयोर्म - ध्यादेकस्या अप्यभावः ॥ अथ विषममाह- कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः । तद्वत्क्रिययोरथवा संजायेतेति तद्विषमम् ॥ ४५ ॥ कार्यस्येति । यत्र कार्यकारणसंबन्धिनोर्गुणयोः क्रिययोर्वा परस्परमन्योन्यं विरोधो १३

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188