Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१० अध्यायः] काव्यालंकार तुल्यस्वं वकिस हि इरः सती माहीमुमाख्या विभर्ति धास्यति । भवानपि होभना नारी निभर्ति पोषमत्लेन । अथवा सन्ना अवसादं गता अरीमा रिपुकरिणो रणे यस स तथाविधः । हसे वृष जस्गवमाविरुदः । भवानपि पं धर्मम् । तथा हरेण विद्विको त्रिपुरवासिनां विषमास्तिस्रः पुरो दग्धाः । भवतात्यन्तदुर्गाः शत्रूणां पुरो दग्भाः । सर्वत्र किंशब्दः प्रश्ने । तथा तस्य परमेश्वर इति संज्ञा । त्वमपि परम उत्कृष्ट ईश्वरोऽर्थवान् । एवं यादृशो हरस्तादृशो भवानपि। तद्यथा तेन भुजंगैः सह संपर्कः कृतस्तथा त्वयापि खिङ्गैः कथं न कृत इति व्यतिरेक्रस्य श्लेषस्य चात्र संकरः । साधारणविशेषणयोगात् (श्लेषणयोगात् ) श्लेषसद्भावः । हरे उपमाने भुजंगसङ्गस्य दोषस्य सत्त्वाद्राजनि चासत्वाद्गुणत्वे सति व्यतिरेकसद्भावः । एतौ चात्र तिलतण्डुलवत्प्रकटौ ॥ इदानीमव्यक्तसंकरोदाहरणमाह
आलोकनं भवत्या जननयनाचन्दनेन्दुकरजालम् ।
हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम् ॥ २८ ॥ आलोकनमिति । भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम् । गुणानां साम्ये सत्युपमानोपमेययोरभिदेति रूपकलक्षणात् । अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा । एतौ चालंकारावव्यक्तांशौ । अत्र प्रमाणाभावादेकनानिश्चयः । दोषाभावाचोभयमप्यानयितुं योग्यम् । एवं हृदयाकर्षणपाशएव पाश इव वा । स्मरतापप्रशमने हिमसलिलमेव तदिव वेति । रूपकोपमासंकरोऽयमलंकारः ॥ तथाआदौ चुम्बति चन्द्रबिम्बविमलां लोलः कपोलस्थली
संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम् । युष्मद्वैरिवधूजनस्य सततं कण्ठे लगत्युल्लस
कि वा यन्न करोत्यवारितरसः कामीव बाष्पः पतन् ॥ २९ ॥ आदाविति । हे नृप, युष्मद्वैरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामीव किंवा यन्न करोति । वा इवार्थे । किमिव यन्न करीतीत्यर्थः । बाष्पस्तावत्पतन्प्रथमं कपोलस्थली चुम्बति । कामुकोऽपि तथैव । ततो बाष्पः प्रसरं प्राप्य क्रमेण पीनस्तनास्फालनं कुरुते । काम्यपि तदेव । ततः कण्ठे च द्वावपि लगतः । ततश्चावारितरसो बाष्पः कामीव किमिव न कुरुते । जघनस्थलमपि स्पृशतीत्यर्थः । अत्र रूपकोपमाश्लेषपर्यायाणां संकरः । तत्र कपोलस्थलीमिति रूपकम् । कामीव चन्द्रबिम्बविमलामिति चोपमा । बाष्पकामिनोः साधारणविशेषणयोगाच्छेषः । शत्रवश्च त्वया जिता इति ता. त्पर्यतः पर्यायसद्भाव इति । अत्र चालंकारसंकरे पूर्वकविलक्ष्याणि भूरिशो दृश्यन्त इत्यत्र महानादरः कार्यः । तथा च-'दिवाकराद्रक्षति यो गुहासु' इत्यादि । अत्रोत्प्रे

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188