SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १० अध्यायः] काव्यालंकार तुल्यस्वं वकिस हि इरः सती माहीमुमाख्या विभर्ति धास्यति । भवानपि होभना नारी निभर्ति पोषमत्लेन । अथवा सन्ना अवसादं गता अरीमा रिपुकरिणो रणे यस स तथाविधः । हसे वृष जस्गवमाविरुदः । भवानपि पं धर्मम् । तथा हरेण विद्विको त्रिपुरवासिनां विषमास्तिस्रः पुरो दग्धाः । भवतात्यन्तदुर्गाः शत्रूणां पुरो दग्भाः । सर्वत्र किंशब्दः प्रश्ने । तथा तस्य परमेश्वर इति संज्ञा । त्वमपि परम उत्कृष्ट ईश्वरोऽर्थवान् । एवं यादृशो हरस्तादृशो भवानपि। तद्यथा तेन भुजंगैः सह संपर्कः कृतस्तथा त्वयापि खिङ्गैः कथं न कृत इति व्यतिरेक्रस्य श्लेषस्य चात्र संकरः । साधारणविशेषणयोगात् (श्लेषणयोगात् ) श्लेषसद्भावः । हरे उपमाने भुजंगसङ्गस्य दोषस्य सत्त्वाद्राजनि चासत्वाद्गुणत्वे सति व्यतिरेकसद्भावः । एतौ चात्र तिलतण्डुलवत्प्रकटौ ॥ इदानीमव्यक्तसंकरोदाहरणमाह आलोकनं भवत्या जननयनाचन्दनेन्दुकरजालम् । हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम् ॥ २८ ॥ आलोकनमिति । भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम् । गुणानां साम्ये सत्युपमानोपमेययोरभिदेति रूपकलक्षणात् । अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा । एतौ चालंकारावव्यक्तांशौ । अत्र प्रमाणाभावादेकनानिश्चयः । दोषाभावाचोभयमप्यानयितुं योग्यम् । एवं हृदयाकर्षणपाशएव पाश इव वा । स्मरतापप्रशमने हिमसलिलमेव तदिव वेति । रूपकोपमासंकरोऽयमलंकारः ॥ तथाआदौ चुम्बति चन्द्रबिम्बविमलां लोलः कपोलस्थली संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम् । युष्मद्वैरिवधूजनस्य सततं कण्ठे लगत्युल्लस कि वा यन्न करोत्यवारितरसः कामीव बाष्पः पतन् ॥ २९ ॥ आदाविति । हे नृप, युष्मद्वैरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामीव किंवा यन्न करोति । वा इवार्थे । किमिव यन्न करीतीत्यर्थः । बाष्पस्तावत्पतन्प्रथमं कपोलस्थली चुम्बति । कामुकोऽपि तथैव । ततो बाष्पः प्रसरं प्राप्य क्रमेण पीनस्तनास्फालनं कुरुते । काम्यपि तदेव । ततः कण्ठे च द्वावपि लगतः । ततश्चावारितरसो बाष्पः कामीव किमिव न कुरुते । जघनस्थलमपि स्पृशतीत्यर्थः । अत्र रूपकोपमाश्लेषपर्यायाणां संकरः । तत्र कपोलस्थलीमिति रूपकम् । कामीव चन्द्रबिम्बविमलामिति चोपमा । बाष्पकामिनोः साधारणविशेषणयोगाच्छेषः । शत्रवश्च त्वया जिता इति ता. त्पर्यतः पर्यायसद्भाव इति । अत्र चालंकारसंकरे पूर्वकविलक्ष्याणि भूरिशो दृश्यन्त इत्यत्र महानादरः कार्यः । तथा च-'दिवाकराद्रक्षति यो गुहासु' इत्यादि । अत्रोत्प्रे
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy