SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३८ काव्यमाला | एषामिति । एषां चतुर्णां वास्तवौपम्यातिशयश्लेषाणां संकीर्णाना मिश्राणां मेदाः स्युभवन्ति । कियन्त इत्याह-- अगणिताः बाहुल्यपरमेतद्वचनम् । संख्या तु विद्यते । एषां त्विति तुरवधारणे । तेषामेव नान्यदलंकारजातमस्तीत्यर्थः । किं तेषां भेदानां नामेत्याह - तन्नामान इति । येषामलंकाराणां मिश्रभावस्त एव मिलितास्तेषां नामेत्यर्थः । यदि सहोतेः समुच्चयस्य च संकरस्तदा सहोक्तिसमुच्चय इति नाम । उत सहोर्व्यतिरेकस्य च तदा सहोक्तिव्यतिरेक इति नाम । एवमन्यत्रापि दृश्यम् । किं तेषां तर्हि लक्षणमित्याह - तेषामित्यादि । तेषां संकरभेदानां लक्षणमंशेषु भागेषु संयोज्यम् । यस्यालंकारस्य र्योऽशस्तदीयमेव तंत्र लक्षणमित्यर्थः ॥ अथ संकरस्यैव भेदानाह योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च । व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा ॥ २५ ॥ योगवशादिति । एतेषां वास्तवादीनां संकरो व्यक्ताव्यक्तशित्वाद्धेतोर्द्वधा द्विप्रकारो भवति । व्यक्ताव्यक्तांशत्वमपि कुत इत्याह-योगवशात् । तथाविधसंबन्धवशादित्यर्थः । केषां यथा स स्यादित्याह — तिलतण्डुलवदित्यादि । तिलतण्डुलानां यथा व्यक्तांशः संकरः, दुग्धजलयोश्चाव्यक्तांशस्तद्वदेतेषामपीत्यर्थः ॥ अत्र हि दिप्रात्रप्रदर्शनार्थमाह अभियुज्य लोलनयना साध्वसजनितोरुवेपथुखेदा । अबलेव वैरिसेना नृप जन्ये भज्यते भवता ॥ २६॥ अभियुज्येति । त्वया सेनाभियुज्याक्रम्य भज्यते भङ्गं नीयते । कीदृशी । भयवशालोलनयना चञ्चलाक्षी । तथा साध्वसेन भयेन जनित उरुर्महान्वेपथुः कम्पः स्वेदश्च यस्याः । अत्राबलेव सेनेति । यथा येन केनचिद्वनिता भज्यते सेव्यते तेनाभियुज्याभिसत्यादौ ततो भज्यते । तथा सापि प्रथमसमागमवशाच्चञ्चलनेत्रा भवति । तस्या अपि साध्वसेनोर्वोर्वेपथुस्वेदौ भवत इति । इहाबलेवेत्येष उपमाविभागः । अभियुज्येत्यादिकस्तु श्लेषविभागः । तयोर्लक्षणं स्वधिया योज्यम् । एतौ तिलतण्डुलवत्प्रकटौ ॥ तथान्यदप्यत्रैवाह— सन्नारीभरणो भवानपि न किं किं नाधिरूढो वृषं किं वा नो भवता निकामविषमा दग्धाः पुरो विद्विषाम् । इत्थं द्वौ परमेश्वराविह शिवस्त्वं चैकरूपस्थिती तत्कि लोकविभो न जातु कुरुषे सङ्ग भुजंगैः सह ॥ २७ ॥ 1 सन्नारीति । हे लोकविभो राजन्, इत्थमुक्तप्रकारेण त्वं हरश्च परमेश्वरौ । यस्मादेकरूपस्थिती तुल्यस्वभावव्यवहारौ । तत्कदाचिदपि भुजगैः सह सङ्गं न कुरुषे । तदेव
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy