________________
१० अध्यायः ]
काव्यालंकारः ।
१३७
यस्मिन्निति । यत्र वाक्येन पूर्ववत्प्रक्रान्तस्यार्थस्य तत्त्वं परमार्थ प्रसाधयदलंकुर्वाणमन्यद्वाच्यमर्थान्तरं गम्यते स तत्त्वश्लेषो विज्ञेयः ॥
उदाहरणमिदम्—
नयने हि तरलतारे सुतनु कपोलौ च चन्द्रकान्तौ ते । • अधरोऽपि पद्मरागस्त्रिभुवनरनं ततो वदनम् ॥ २१ ॥
नयन इति । हे सुतनु, तव नयने चञ्चलकनीनिके । कपोलौ च चन्द्रवत्कान्तौ । पलोहित ओष्ठः । ततो वदनं मुखं त्रिभुवने रलं सारम् । जातौ यद्यदुत्कृष्टं तत्तद्रत्नमुच्यते । एनमर्थ प्रसाधयन्नयमन्योऽर्थो गम्यते । तव नयने तरले च तारे च । तरलो हारमध्यमणिः । तथा चन्द्रकान्तो मणिभेदः, पद्मरागश्च । यतश्चैतेऽवयवा रत्नरूपास्ततो वदनं त्रिभुवनरत्नं चिन्तामणिरेव । अस्माच्च पूर्वत्र विशेषोऽवयवमुख स्थित समुदाय विशेषणत्वमिति ॥
अथ विरोधाभासः —
स इति विरोधाभासो यस्मिन्नर्थद्वयं पृथग्भूतम् ।
अन्यद्वाक्यं गमयेदविरुद्धं सद्विरुद्धमिव ॥ २२ ॥
इति । स इत्यनेन प्रकारेण विरोधाभासोऽलंकारः, यस्मिन्नेकमेव वाक्यमन्यदर्थद्वयं पृथग्भूतं गमयति । कीदृशमर्थद्वयम् । स्वरूपेणाविरुद्धमपि विरुद्धमिव लक्ष्यमाणम् ॥
उदाहरणमाह—
तव दक्षिणोऽपि वामो बलभद्रोऽपि प्रलम्ब एष भुजः । दुर्योधनोऽपि राजन्युधिष्ठिरोऽस्तीत्यहो चित्रम् ॥ २३ ॥
तवेति । हे राजन्, तव बाहुर्भक्तान्प्रत्यनुकूलत्वाद्दक्षिणोऽपि शत्रून्प्रति प्रतिकूलतया वाम इत्यविरुद्धमद्वयम् । तथा स एव बलेन भद्रोऽपि श्रेष्ठोऽपि प्रलम्बो दीर्घः । तथा दुःखेन योध्यत इति दुर्योधनोऽपि युधि समरे स्थिरोऽचञ्चल इत्यविरोधः । विरोधप्रतिभासश्च दक्षिणवामयोः सव्येतररूपयोरन्यत्वात्, तथा बलभद्रप्रलम्बयोर्हलधरासुरयोरन्यत्वात्, तथा दुर्योधनयुधिष्ठिरयोर्धार्तराष्ट्रपाण्डवयोर्भिन्नत्वाह्रक्ष्यते । अथ विरोधादस्य को विशेषः । उच्यते -तत्र यादृग्विशेषणमादौ निर्दिष्टं तत्प्रत्यनीकं पुनरुच्यते । यथा संवर्धितकमलोऽप्यवदलितनालिक इति । अत्र तु वाक्यान्तरार्थपर्यालोचनया विरोधच्छायास्तीति । अत्रापि भवति, यदि दुर्योधनोऽपि सुयोधन इत्युच्यते । अत एव विरोधाभाससंज्ञा ॥
एवं शुद्धानलंकारान्सप्रभेदानाख्यायाधुना पूर्वक विलक्ष्यसिद्ध्यर्थं संकीर्णास्ता नाहएषां तु चतुर्णामपि संकीर्णानां स्युरगणिता भेदाः । तन्नामानस्तेषां लक्षणमंशेषु संयोज्यम् ॥ २४ ॥