________________
१३६
काव्यमाला 1
गम्यते । कीदृशः । असंभवत्तद्विशेषण इति । असंभवन्ति तस्य प्रस्तुतार्थंस्य संबन्धीनि विशेषणानि यस्य स तथोक्तः । तथा सुप्रसिद्धः ख्यात इति ॥
उदाहरणमाह---
S
परिहृतभुजंगसङ्गः समनयनो न कुरुषे वृषं चाधः । नन्वन्य एव दृष्टस्त्वमत्र परमेश्वरो जगति ॥ १७ ॥
परिहृतेति । अत्र प्रकृतान्नृपलक्षणादर्थादन्योऽर्थो महादेवलक्षणोऽसंभवद्विशेषणः प्रसिद्ध गम्यते । महादेवो हि विद्यमानवासुकिसङ्गस्त्रिनयनो वृषवाहनश्च । राजा तु दूरीकृतविटः समदृष्टिः पूजितधर्मश्च । अस्य चालंकारस्यान्यैर्व्यतिरेक इति नाम कृतम् । अत्र तु न व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम् । अन्यत्वमेव विशेषणान्तरयुक्तमिति । रूपकताशङ्काप्यत्र न कार्या । साम्यस्य स्वयमेवाप्रकृतत्वादिति ॥
अथावयवश्लेषः—
यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम् ।
पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः ॥ १८ ॥
यत्रेति । यत्र प्रधानार्थं पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थो गम्यते सोऽवयवश्लेषः। कीदृशं प्रधानार्थम् । अवयवमुखेनावयवद्वारेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम् ॥
उदाहरणम्
भुजयुगले बलभद्रः सकलजगल्लङ्घने तथा बलिजित् । अक्रूरो हृदयेऽसौ राजाभूदर्जुनो यशसि ॥
१९ ॥
भुजयुगल इति । स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः । तथा सकलस्य जगतो लङ्घने आक्रमणे कर्तव्ये बलिनः शक्तानपि जयत्यभिभवतीति बलिजित् । तथा हृदये मनस्यक्रूरो मृदुः । यशसि चार्जुनः शुक्लः । अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि । यस्मान्नात्र बलभद्रत्वादिकं भुजादीनाम् । अपि तु राजैव यदा भुजयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते । तथा सकलजगलङ्घने बालजयनाद्वालेजित् । एवं हृदयस्या क्रूरत्वात्स एवाक्रूरः । यशसोऽर्जुनत्वात्स एवार्जुन इति । एवं प्रधानार्थं पोषयन्नयमन्योऽर्थोऽवगम्यते । यथा - बलभद्रो हलधरः । बलि जिद्वासुदेवः । अक्रूरो वृष्णिविशेषः । अर्जुनः पाण्डवः । एष एव चात्र प्रधानार्थपोषो यदन्येषां यानि नामानि तान्येवास्यान्वर्थेन प्रशंसाकारीणीति ॥
अथ तत्त्वश्लेषः—
यस्मिन्वाक्येन तथा प्रक्रान्तस्य प्रसाधयत्तत्त्वम् । गम्येतान्यद्वाच्यं तत्त्वश्लेषः स विज्ञेयः ॥ २० ॥