SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १० अध्यायः ] काव्यालंकारः । मुक्ता साहसिकेन येन सहसा राज्ञां पुरः पश्यतां सा मेदिन्यपरैः परं परिहृता सर्वैरगम्येति या ॥ १३॥ नो इति । अत्र निन्दा तावत् - या सर्वैरेव लोकैरगम्यत्वात्परिहृता सा मेदिनी शिल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैव भुक्ता । तेन किं कृतम् । न परलोकाद्भीतम्, न खजनो गणितः, मर्यादा च लङ्घिता, गोत्रस्थितिर्मुक्तेति । अतोऽपि निन्दायाः प्रासङ्गिकी स्तुतिरेव गम्यते । यथा — सा मेदिनी भूर्येन साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशीकृता । या सर्वैरेव राजभिर्दुर्गमत्वाद्दूरं परिहृता । तेन किं कृतम् । परलोकतः शत्रुलोकान्नो भीतम् । तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्येनापेक्षितः । तथा मर्यादा स्वदेशसीमा लङ्घिता । तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता दुर्ग मुक्तमित्यर्थः ॥ १३५ अथोक्तिश्लेषः— यत्र विवक्षितमर्थं पुष्यन्ती लौकिकी प्रसिद्धोक्तिः । गम्येतान्या तस्मादुक्तिश्लेषः स विज्ञेयः ॥ १४ ॥ यत्रेति । यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोतिर्वचनं गम्यते स उक्तिश्लेषः । का तर्ह्यस्यालंक्रियेत्याह - विवक्षितमर्थ पुष्यन्ती । एतदुक्तं भवति — प्रकृतोऽर्थो रम्यो भवतु, मा वा भूत्, लौकिकी चेदुक्तिर्गम्यते तयैव तस्य पोषः क्रियत इति ॥ उदाहरणमाह कलावतः संभृतमण्डलस्य यया हसन्त्यैव हृताशु लक्ष्मीः नृणामपाङ्गेन कृतश्च कामस्तस्याः करस्था ननु नालिकश्रीः ॥ १५ ॥ कलावत इति । कस्याश्चिद्रूपवर्णनं क्रियते – कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्यैवाशु शीघ्रं लक्ष्मीः शोभा हृताभिभूता । नृणां चापाङ्गेन कटाक्षेण कामः कृतः तरखा नालिकश्रीः पद्मशोभा करस्थैव । यया मुखेनाखण्डः शशी जितस्तया हस्तशोभ्रमाः पद्ममपि नूनं जीयेतेत्यर्थ इति । एषोऽत्र विवक्षितोऽर्थः । एतस्यैव परिपोषं कुर्वाणान्या लौकिकी प्रसिद्धोतिर्गम्यते । यथा-यया नर्तक्या कलावतो विदग्धस्य संभृतमण्डलस्य ससहायवृन्दस्य हसन्यैवाक्लेशेनैवाशु - लक्ष्मीर्हता वनं भक्षितम् । नृणां चापाङ्गेन हेल्यैव कामः कृतः । तस्या नालिकश्रीर्मुग्धजन संपत्करस्थितैवेति । एष एव चात्र पूर्वार्थपोषो यलोकप्रसिद्ध्योक्त्यवगम इति ॥ अथासंभवश्लेषः गम्येत प्रक्रान्तादसंभवत्तद्विशेषणोऽन्योऽर्थः । वाक्येन सुप्रसिद्धः स ज्ञेयोऽसंभव श्लेषः ॥ १६ ॥ गम्येतेति । सोऽसंभवश्छेषो ज्ञेयः यत्र वाक्येन प्रक्रान्तादर्थादन्योऽप्रस्तुतोऽर्थो
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy