________________
१३४
अथ वक्रश्लेषः
काव्यमाला |
यत्रार्थादन्यरसस्तत्प्रतिबद्धश्च गम्यतेऽन्योऽर्थः । वाक्येन सुप्रसिद्धो वक्रश्लेषः स विज्ञेयः ॥ ९ ॥
यत्रेति । यत्र वाक्येन खमर्थं ब्रुवतान्योऽर्थः प्रासङ्गिको गम्यते । कीदृशः । प्रकृतादन्यरसः । तथा तेन प्रकृतार्थेन प्रतिबद्धः । प्रतिबद्धता चैकविषयत्वेन । तथा सुप्रसि द्धस्तत्प्रतिबद्धत्वेन सुष्ठु प्रतीतः ॥
उदाहरणम्
आक्रम्य मध्यदेशं विदधत्संवाहनं तथाङ्गानाम् ।
पतति करः कायामपि तव निर्जितकामरूपस्य ॥ १० ॥
आक्रम्येति । तव निर्जितकामरूपाख्य जनपदस्य संबन्धी करो नृपदेयभागः काञ्चीनानि यावद्देशे पतति । काश्यपि त्वया जितेत्यर्थः । किं कृत्वा । मध्यदेशं कान्यकुब्जादिकमाक्रम्याभिभूय । अनन्तरमङ्गानां देशविशेषाणां संवाहनमुपमर्दनं कुर्वन्निति । अथ गम्यमर्थान्तरं भण्यते—यथा तव तिरस्कृतमदनरूपस्य करो हस्तः कायां रसनाप्रदेशे पतति । मध्यदेशमुदरमात्रम् । अङ्गानामूरुस्तनादीनां संवाहनं परिमलनं कुर्वन् । अयं चार्थः शृङ्गाररसयुक्तः । एकविषयत्वेन च पूर्वार्थप्रतिबद्धः । पूर्वत्र तु रसो वीराभिधः ॥ अथ व्याजश्लेषः
यस्मिन्निन्दा स्तुतितो निन्दाया वा स्तुतिः प्रतीयेत । अन्याविवक्षिताया व्याज श्लेषः स विज्ञेयः ॥ ११ ॥
यस्मिन्निति । यत्र स्तुतेर्विवक्षिताया अन्या प्रासङ्गिकी निद्रा प्रतीयते निन्दाया वा विवक्षितायाः प्रासङ्गिकी स्तुतिः स व्याज श्लेषः ॥
उदाहरणमाह
त्वया मदर्थे समुपेत्य दत्तमिदं यथा भोगवते शरीरम् ।
तथास्य ते दूति कृतस्य शक्या प्रतिक्रियानेन न जन्मना मे ॥ १२ ॥ त्वयेति । अत्र कयापि नायिकया दूती दयितपार्श्वे प्रेषिता । सा तु तत्र स्वार्थ कृतवती । समागत्य चाधरक्षतादिकमुद्दिश्योत्तरं दत्तवती यथाहं तत्र त्वदर्थे गता सती सर्पेण दष्टा, परं वैद्यैश्चिकित्सितेति जीविता । ततस्तां कृतदोषां दूतीं नायिका स्तुतिद्वारेण निन्दति त्वयेत्यादिना । भोगवते इत्येकत्र सर्पाय, अन्यत्र विलासिने । प्रतिक्रिया त्वेकत्रोपकारः, अन्यत्रापकारः ॥
निन्दास्तुतिमाह
नो भीतं परलोकतो न गणितः सर्वः स्वकीयो जनो
मर्यादापि च लङ्घिता न च तथा सुक्ता न गोत्रस्थितिः ।