________________
१० अध्यायः] काव्यालंकारः।
१३३ अथ विरोधश्लेषः
यत्र विरुद्ध विशेषणमवगमयदन्यदर्थसामान्यम् ।
प्रक्रान्तमतोऽन्यादृग्वाक्यश्लेषो विरोधोऽसौ ॥ ५॥ यत्रेति । असौ विरोधाख्यश्लेषः, यत्र प्रक्रान्तवाक्यमन्यदर्थसामान्य विरुद्धविशेषणमवगमयेत्। कीदृग्वाक्यम् । अतोऽर्थान्तरादन्यादृशम् । विशेषरूपमविरुद्धं चेत्यर्थः। तेन यत्र प्रक्रान्तोऽर्थविशेषोऽन्यदर्थसामान्यं विरुद्धविशेषणमवगमयति स विरोधश्लेष इति ता
पर्यार्थः ॥
उदाहरणम्
संवर्धितविविधाधिककमलोऽप्यवदलितनालिकः सोऽभूत् ।
सकलारिदाररसिकोऽप्यनभिमतपराङ्गनासङ्गः ॥ ६॥ संवर्धितेति । अत्रायं प्रक्रान्तोऽर्थः-स कश्चिद्राजा एवंविधोऽभूत् । यथा संवर्धितनानाभ्यधिकलक्ष्मीकोऽवदलितमूर्खश्च । तथा सकलशत्रुविदारणरसिकोऽनिष्टपरस्त्रीसङ्गश्वेति । इदं तु विरुद्धमर्थसामान्यं गम्यते-यदि संवर्धितानि विविधान्यधिकं कमलानि पद्मानि येन, कथमवदलितानि नालिकानि पद्मानि तेनैवेति । तथा यदि सकलेष्वरिदारेषु शत्रुकलत्रेषु रसिकः कथमनभिमतपराङ्गनासङ्ग इति । सामान्यरूपता चास्य विशेष्याविशेषणादिति ॥ अथाधिकश्लेष:
यत्राधिकमारब्धादसमानविशेषणं तथा वाक्यम् । .
अर्थान्तरमवगमयेदधिकश्लेषः स विज्ञेयः ॥ ७ ॥ यत्रेति। यत्र वाक्यं कर्तृभूतमारब्धात्प्रकृतादन्यदर्थान्तरमधिकमुत्कृष्टं गमयेत्सोऽधिकश्लेषः । अविशेषश्लेषादस्य विशेषमाह-असमान विशेषणमिति । तत्र हि समानार्थानि विशेषणान्युक्तानि ॥
उदाहरणम्......प्रेम्णा निधाय मूर्धनि वक्रमपि बिभर्ति यः कलावन्तम् । । - भूतिं च वृषारूढः स एव परमेश्वरो जयति ॥ ८॥
प्रेम्णेति । यः कलावन्तं विदग्धं वक्रमनृजुहृदयमपि बिभर्ति, प्रेम्णा प्रीत्या शिरसिकृत्वा । तथा भूतिं समृद्धिं च बिभर्ति । कीदृशः सन् । वृषे धर्मे समारूढः । स एवं परमेश्वरो नायको जयति । एतत्प्रकृतं वाक्यमिदं तूत्कृष्टमर्थान्तरं गमयति यथा स एवं परमेश्वरो महादेवो जयति, यः कलावन्तं चन्द्रं वक्रं कलाशेषमपि प्रेम्णा मूर्ध्नि निधाय वहति । भूतिं च भस्म वहति । वृषे वृषभे समारूढ इति । उत्कृष्टत्वं चात्र देववर्णनात् । नृभ्यो हि देवा अधिकाः। विशेषणान्यपि भिन्नार्थान्यत्रेति ॥..