SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ‘दशमोऽध्यायः। वास्तवौपम्यातिशयान्व्याख्यायाधुना क्रमप्राप्तं श्लेषं व्याचिख्यासुराह यत्रैकमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन् । .. अर्थ कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ॥ १॥ .. योति । यत्रैकमेव वाक्यं रचितं सदनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थश्लेषो विज्ञेयः। नन्वेकं चेद्वाक्यं कथमनेकार्थनिश्चयं करोतीत्याह-अनेकार्थैः पदै रचितमिति कृत्वा । एकं वाक्यमित्येकग्रहणं शब्दश्लेषादस्य विशेषख्यापनार्थम् । तत्र हि 'युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः' (४।१) इत्युक्तम् । किं च तत्र शब्दानां श्लेषः, अत्र त्वर्थानामिति॥ अथास्यैव भेदानाह अविशेषविरोधाधिकवक्रव्याजोक्त्यसंभवावयवाः । तत्त्वविरोधाभासाविति भेदास्तस्य शुद्धस्य ॥२॥ __ अविशेषेति । तस्य श्लेषस्य शुद्धस्याविशेषादयो दश भेदाः । इतिशब्दः समाप्त्यर्थों निर्देशार्थो वा । शुद्धग्रहणं परमतनिरासार्थम् । यतः कैश्चित् 'तत्सहोक्त्युपमाहेतुनिर्देशात्रिविधम्' इति संकीर्णत्वेन त्रैविध्यमुक्तमिति शुद्धस्यैव सतोऽस्य दश भेदाः । अलंकारान्तरसंस्पर्शेऽनम्ता इत्यर्थः ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमविशेष लक्षयितुमाह अविशेषः श्लेषोऽसौ विज्ञेयो यत्र वाक्यमेकस्मात् । अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम् ॥ ३ ॥ ..... . अविशेष इति । असावविशेषश्लेषो ज्ञेयः, यत्र वाक्यमेकस्मात्प्रक्रान्तादन्यमर्थ गमयेत्। कीदृशम् । अविशिष्टैः समानैर्विशेषणैरुपेतं युक्तम् । यादृशानि चैकस्य विशेषणानि ताहशान्येवापरस्यापीत्यर्थः । ननु प्रकृतानुपयोग्यर्थान्तरमुन्मत्तवाक्यवदसंबद्धमवगतमपि कोपयुज्यते । सत्यम् । एतदेवास्यालंकारत्वम् । एवं हि सहृदयावर्जकत्वमस्य । अत्र च महाकवय एव प्रमाणम् ॥ उदाहरणम् शरदिन्दुसुन्दररुचं सुकुमारां सुरभिपरिमलामनिशम् । निदधाति नाल्पपुण्यः कण्ठे नवमालिकां कान्ताम् ॥ ४ ॥ - शरदिति । नवा प्रत्यग्रा माला यस्यास्तां नवमालिकां कान्तां प्रियतमामल्पपुण्यः कण्ठे न करोतीति । एतत्प्रकृतं वाक्यं कान्तानवमालिकाशब्दयोरनेकार्थत्वादिदमर्थान्तरं गमयति । यथा-नवमालिकाख्यां सुमनोजातिं कान्तां हृद्यामल्पपुण्यः कण्ठे न कुरुत इति । शरदिन्दुसुन्दररुचमित्यादीन्यविशिष्टानि विशेषणानि ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy