________________
९ अध्यायः] काव्यालपारः।
१३१ द्विधीयत इति । मीलितात्तर्हि कोऽस्स भेदः। उच्यते-असमानचिहत्वमेव । तत्र हि समानचिहेन वस्तुना हर्षकोपादि तिरस्कियत इति सर्व समजसम्॥ उदाहरणम्
प्रियतमवियोगजनिता कृशता कथमिव तवेयमनेषु ।
लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत ॥ ५१ ॥ प्रियेति । अत्र कान्तिगुणेनार्थान्तरं कृशताख्यमेकाधारमसमानगुणमतिप्रबलत्वारिपहितमिति ॥ अथ व्याघात:
अन्यैरप्रतिहतमपि कारणमुत्पादनं न कार्यस्य ।
यस्मिन्नभिधीयेत व्याघातः स इति विज्ञेयः॥१२॥ अन्यैरिति । यत्र कारणं कार्यस्याजनकमुच्येत स कार्यव्याघाताख्योऽलंकारः । कदा. चित्कारणं केनचित्प्रतिहतं भविष्यतीत्यतं आह-अन्यैः कारणैरप्रतिहतमपीति । अत एवालिशयितमिति ॥ उदाहरणमाह
यत्र सुरतप्रदीपा निष्कज्जलवतेयो महामणयः ।
माल्यस्यापि न गम्या हृतवसनवधूविसृष्टस्य ॥ ५३ ॥ योति । अत्र दीपः कारणं कार्यस्य कजलस्य नोत्पादकम् । तच्च कारणं कारणान्तरैर्माल्यादिभिरप्रतिहतमिति ॥ अथाहेतु:
बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् ।
यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति ॥ ५४ ॥ बलवतीति । असावहेतुर्नामालंकारः, यत्रार्थो विकारमन्यथात्वं नायाति । कदाचिं. द्विक्रियाकारणं न स्यादित्याह-विकारहेतौ सत्यपि । कदाचिदसौ हेतुः प्रबलों न स्यादित्याह-बलवतीति । अत एवातिशयत्वमिति । कथं नायाति, स्थैर्यादिति ॥ उदाहरणम्
रूक्षेऽपि पेशलेन प्रखलेऽप्यखलेन भूषिता भवता ।
वसुधेयं वसुधाधिप मधुरगिरा परुषवचनेऽपि ॥ ५५ ॥ रूक्ष इति । अत्र रूक्षादिके बलवति विकारकारणे सत्यपि विकारमपेशलत्वादिक राजा महासत्त्वोभायातीति ॥ इति श्रीरुद्रटकृते काव्यालंकारै नमिसाधुविरचितटिप्पणसमेतो
नवमोऽध्यायः समाप्तः। .