________________
१३.०
काममा |
भवेतद्विषमनामालंकारः । ननु यदि वस्तुनोः कार्यकारणभावः, कथं तदुमयोः क्रिययोर्वा विरोधः । सत्यम् । अत एवातिशयत्वम् ॥
उदाहरणम्
अरिकरिकुम्भविदारणरुधिरारुण दारुणादतः खड्गात् । वसुधाधिपते धवलं कान्तं च यशो बभूव तव ॥ ४६ ॥
अरीति । अत्र कारणस्य खङ्गस्य गुणौ लौहित्यदारुणत्वे, कार्यस्य यशसो धनलत्नकान्तत्वे, तेषां चान्योन्यं विरोधः ॥
तथा
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४७ ॥ आनन्देति । अत्र कारणस्य नायिकायाः क्रिया आनन्ददानम्, कार्यस्य तु विरहस्य तापनम्, तयोश्चान्योन्यं विरोधः ॥
अथासंगतिः
विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र ।
यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥ ४८ ॥
1
विस्पष्ट इति । सेयमसंगतिर्बोद्धव्या, यस्यां विस्पष्टे प्रकटे समकालमेव च कार्य - मन्त्रोपलभ्यते कार्य वान्यत्रेति; अत एवासंगतिर्नाम अतिशयत्वं च ॥
उदाहरणम्
नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते ।
अङ्गान्यसंगतानां यूनां हृदि वर्धते कामः ॥ ४९ ॥
नवेति । अत्राङ्गपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पृष्टमेवोपलभ्यते ॥
अथ पिहितम् -
यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् ।
अर्थान्तरं पिदध्यादाविर्भूतमपि तत्पिहितम् ॥ ५० ॥
यत्रेति । यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्तातिप्रबलतया हेतुभूतया पिदध्यात्स्थयेत्तत्पहितं नामालंकारः । ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिशयत्वमित्याहअसमानम् । असदृशमित्यर्थः । कदाचिदसमानमप्यलब्धपाटवं स्यादित्यत आहआविर्भूतमपीत्यर्थः । असमानग्रहणेन प्रथमातद्गुणालंकाराद्विशेषः ख्याप्यते, तत्र येकगुणानामर्थानां संसर्गे नानात्वं लक्ष्यत इत्युक्तम् । द्वितीयात्तर्हि कोऽस्य विशेषः । उच्यते - तत्रासमानगुणं वस्तु वस्त्वन्तरेण प्रबलगुणेन संसृष्टं तद्गुणतां प्राप्यते, न त