________________
९ अध्यायः ]
काव्यालंकारः F
१२९
तेजखिनेति । अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्य च विरोधेऽप्येकत्रावस्थितिः । अत्र लोद्रव्यस्य तरणक्रियायाश्च विरोधेऽवस्थितिः ॥
सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः । अभिनव कदम्बधूली धूसरशुभ्र भ्रममराः ॥ ३९ ॥
सेति । अत्र कोमलगुणस्य दलनक्रियायाश्च विरोधेऽप्यवस्थितिः । अत्र भ्रमरजातेः शुक्लत्वगुणस्य च विरोधः ॥
वरतनु विरुद्धमेतत्तव चरितमदृष्टपूर्वमिह लोके ।
मनासि येन नितरामबलापि बलान्मनो यूनाम् ॥ ४० ॥ वरतन्विति । अत्राबलत्वजातेर्मथनक्रियायाश्च विरोधः ॥ अन्ये तु भेदाश्चत्वारः सन्तीत्युक्तम् । तेषामुदाहरणान्याह - अविवेकितया स्थानं जातं न जलं न च स्थलं तस्याः । अनुरज्य चलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः ॥ ४१ ॥ अविवेकितयेति । अत्र द्रव्ययोर्जलस्थलयोर्विरोधित्वादेकस्याभावेऽवश्यमेवेत रस्यावस्थानेन भाव्यम् । अत्र चोभयोरप्यभाव उक्तः ॥
न मृदु न कठिणमिदं मे हतहृदयं पश्य मन्दपुण्यायाः । द्विरहानलतप्तं न विलयमुपयाति न च दादर्थम् ॥ ४२ ॥ नेति । यदि मद्धृदयं मृदु भवेत्ततो विरहाग्नितप्तं जतुवद्विलीयेत । कठिनं स्यात्ततो घनवद्द्रढिमानमानुयादिति । अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः ॥
नास्ते न याति हंसः पश्यन्गगनं घनश्यामम् ।
चिरपरिचितां च बिसिनीं खयमुपभुक्तातिरिक्तरसाम् ॥ ४३ ॥ नेति । यथा पूर्व गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति ॥
न स्त्री न चायमस्त्री जातः कुलपांसनो जनो यत्र ।
कथमिव तत्पातालं न यातु कुलमनवलम्बितया ॥ ४४ ॥
नेति । कुलपांसनः । कुलनाशन इत्यर्थः । अत्रापि स्त्रीत्वपुरुषत्वजात्योर्विरुद्धयोर्म - ध्यादेकस्या अप्यभावः ॥
अथ विषममाह-
कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः ।
तद्वत्क्रिययोरथवा संजायेतेति तद्विषमम् ॥ ४५ ॥
कार्यस्येति । यत्र कार्यकारणसंबन्धिनोर्गुणयोः क्रिययोर्वा परस्परमन्योन्यं विरोधो
१३