________________
१२८
काव्यमाला ।
धश्च । अत एव तन्नामानः । तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधीयमानस्य पञ्च भेदा भवन्ति । यथा द्रव्यगुणयोर्द्रव्यक्क्रिययोर्गुणक्रिययोर्गुणजात्योः क्रियाजात्योश्चेति ॥
ननु द्रव्यजात्योरपि षष्ठो भेदः समस्ति तत्कथं पश्चेत्युक्तं तत्राहजातिद्रव्यविरोधो न संभवत्येव तेन न षडेते ।
अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः ॥ ३२ ॥ जातीति । नित्यमेव द्रव्याश्रितत्वाज्जातेर्न जातिद्रव्ययोर्विरोध इत्यर्थः । एवं नव भेदाः । तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति ॥
तद्यथा
यत्रावश्यं भावी ययोः सजातीययोर्भवेदेकः ।
एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु ॥ ३३ ॥
यत्रेति । यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवति, तयोर्द्वयोरप्यभावो यत्र कथ्यते सोऽपरो विरोधश्चतुर्धा द्रव्यगुणक्रियाजातिभेदेन । इत्येवं त्रयोदश संख्योऽयं विरोधालंकारः ॥
अथैषामेव यथाक्रममुदाहरणान्याह -
अत्रेन्द्रनीलभित्तिषु गुहासु शैले सदा सुवेलाख्ये । अन्योन्यानभिभूते तेजस्तमसी प्रवर्तेते ॥ ३४ ॥
अत्रेति । अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुहाधारेऽवस्थितिरुक्ता ॥ · सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥ ३५ ॥ सत्यमिति । अत्र सरलत्व कुब्जत्वादिविरुद्धगुणावस्थितिः ॥ बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति संतापयति च दूरे हृदये च मे वसति ॥ ३६ ॥ बालेति । अत्र जडीकरणसंतापनादिक्रिये विरुद्धे ॥
एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववरात्वे तथैव यो विभुरसौ जयति ॥ ३७ ॥ एकस्यामिति । अत्र नरत्वादिजातिविरोधः ॥
अथ विजातीयोदाहरणान्याह -
तेजखिना गृहीतं मार्दवमुपयाति पश्य लोहमपि ।
पात्रं तु महद्विहितं तरति तदन्यच्च तारयति ॥ ३८ ॥