SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ९ अध्यायः ] काव्यालंकारः । १२७ यत्रेति । यत्रैकस्मात्कारणाद्वस्तुद्वयमुत्पद्यत इत्युच्यते तदधिकम् । किमेतावतातिशः यत्वमित्याह – अन्योन्यविरुद्धम् । परस्परविरुद्धखभावमित्यर्थः । प्रकारान्तरमाह - वि रुद्धाभ्यां बलवतीभ्यां क्रियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम् ॥ उदाहरणम् मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम् | उदपद्यत नीरनिधेर्विषममृतं चेति तच्चित्रम् ॥ २७ ॥ मुञ्चतीति । अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्धं जायमानमुतम् । उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम् । विपामृतयोर्हि न परस्परं विरोधः । किं तु मारणजीवनक्रिये विरुद्धे । इत्युदाहरणद्वयमेतत् ॥ भेदान्तरमाह यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि । अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ २८ ॥ यत्रेति । यत्र सुमहत्यप्याधारेऽतिशयवत्यप्याधेयं वस्त्ववस्थितं कुतश्चित्कारणान् माति तदपरमधिकं बोद्धव्यम् ॥ उदाहरणम् जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तत् । पर्याप्तमासीदखिलं न तस्यास्तत्रावकाशस्तु कुतोऽपरस्याः ॥ २९ ॥ जगदिति । अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं खल्पमपि न माति । तस्यास्तत्रामानमनुरागाद्बहिरपि सर्वत्र दर्शनात् । तन्वीति साभिप्रायमत्र नाम ॥ अथ विरोधः— यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः ॥ ३० ॥ यस्मिन्निति । यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः । परस्परमन्योन्यम् । न त्वाधारेण सह । तथा सर्वप्रकारं सजातीयैर्विजाती`यैश्च सहेत्यर्थः । समकालमिति युगपत् । अत एवातिशयत्वं भवति ॥ एवं सर्वथा विरोधे सति कियन्तो भेदा इति तत्संख्यामाह अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः । भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम् ॥ ३१ ॥ अस्येति । अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो भेदाः सन्ति । यथा द्रव्ययोर्विरोधो द्रव्यविरोधः । एवं गुणविरोधः क्रियाविरोधो जातिविरो
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy