________________
१२६
उदाहरणम्
काव्यमाला |
स्फुटमपरं निद्रायाः सरसमचैतन्यकारणं पुंसाम् ।
अपटलमान्ध्यनिमित्तं मदहेतुरनासवो लक्ष्मीः ॥ २१ ॥ स्फुटमिति । अत्राचैतन्यनिमित्तत्वं निद्रायाः प्रसिद्धम् । आन्ध्यहेतुत्वं पटलस्य । मदकारणत्वमासवस्य । अथ चान्यस्यार्थस्य लक्ष्मीलक्षणस्योक्तमिति ॥
अथ तद्गुणः
यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम् ।
संसर्गे नानात्वं न लक्ष्यते तद्गुणः स इति ॥ २२ ॥
यस्मिन्निति । यत्राभिन्नगुणानामर्थानां संबन्धे सति नानात्वं भेदो न लक्ष्यत इत्युच्यते स तद्गुणो नामालंकारः स्यात् । स एव गुणो यत्रेति कृत्वा । ननु दुग्धतकादीनां संसर्गे नानात्वं न लक्ष्यत एव तत्किमतिशयत्वमित्याह – योगलक्ष्यरूपाणामिति । यत्र योगे सति रूपं लक्षयितुं शक्यमथवा लक्ष्यमिति कथ्यत इत्यर्थः ॥
उदाहरणम्
नवधौतधवलवसनाश्चन्द्रिकया सान्द्रया तिरोगमिताः । रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥ २३ ॥
नवेति । अत्र ज्योत्स्नाभिसारिकालक्षणावर्थावेकेन सहजाहार्येण शुक्लगुणेन युक्तौ संसर्गे लक्ष्यरूपावप्यलक्ष्यतयोक्तौ ॥
: भेदान्तरमाह-
असमानगुणं यस्मिन्नतिबहलगुणेन वस्तुना वस्तु ।
संसृष्टं तद्गुणतां धतेऽन्यस्तद्गुणः स इति ॥ २४ ॥
असमानेति । यत्र वस्तुनान्येन संसृष्टं वस्तु तद्गुणतां धत्ते तदीयगुणं भवतीति कथ्यते स इत्यन्यस्तद्गुणः । कदाचिदेकगुणता तयोर्भविष्यति, अतो नातिशयत्वमित्याहअतिबहलगुणेनेति । अतिबहुगुणता तद्गुणत्वहेतुः क्रियत इत्यर्थः ॥
: उदाहरणमाह
कुब्जकमालापि कृता कार्तखरभाखरे त्वया कण्ठे | एतत्प्रभानुलिप्ता चम्पकदामभ्रमं कुरुते ॥ २५ ॥
कुब्जकमालेति । अत्र शुक्लगुणा कुब्जकमाला गौरवर्णकण्ठेन संपृक्ता गौरमेव वर्ण धत्ते ॥ अथाधिकम् -
यत्रान्योन्यविरुद्धं विरुद्ध बलवत्क्रियाप्रसिद्धं वा । वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम् ॥ २६ ॥