SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ९ अध्यायः ] काव्यालंकारः। १२५ सरसीति । अत्र नलिन्या जलप्रवेशे निजं जलोल्लासाख्यं कारणं विमुच्य हसवियो. गाख्यं हेत्वन्तरमारोपितम्।या किलान्यापीष्टेन वियुज्यते सापायी जलप्रवेशादि कुरुते॥ अथ विभावना सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणैव ॥ १६ ॥ सेति । सेयमेषा विभावना, यस्यामभिधेयः पदार्थों यतः कारणानिजाद्धेतोर्भवति स पदार्थस्तत्कारणमन्तरेणाप्यभिधीयत इति । ननु तत्कारणं चेत्कथं तद्विनोत्पत्तिरित्याह-उपलभ्यमानं दृश्यमानमिति । अत एवातिशयत्वमिति ॥ उदाहरणम्निहतातुलतिमिरभरः स्फारस्फुरदुरुतरप्रमाप्रसरः । शं वो दिनकृद्दिश्यादतैलपूरो जगद्दीपः ॥ १७ ॥ अत्राभिधेयं दीपलक्षणं यतः कारणात्तैलाख्याद्भवति तद्विनापि कथितमतैलपूर इति। अत्र च दीप इव दीप इति सत्यपि रूपकत्वेऽतैलपूर इति विभावनाविभागः ॥ प्रकारान्तरमाह यस्यां तथा विकारस्तत्कारणमन्तरेण सुव्यक्तः। प्रभवति वस्तुविशेषे विभावना सेयमन्या तु ॥१८॥ यस्यामिति । सेयमेषान्या विभावना, यस्यां तथेति यतः कारणाद्विकारः क्वचिद्वस्तुनि प्रभवति तत्कारणमन्तरेणापि सुव्यक्तः प्रकटः स विकारः कथ्यत इति ॥ उदाहरणम् जाता ते सखि सांप्रतमश्रमपरिमन्थरा गतिः किमियम् । .... कस्मादभवदकस्मादियममधुमदालसा दृष्टिः ।। १९ ।। ..... जातेति । अत्र गतिदृष्टिलक्षणे वस्तुविशेषे मन्थरत्वालसत्वलक्षणो विकारो यतः कारणाच्छ्रममधुमदलक्षणाद्भवति तेन विनैवोक्तः । अथ पूर्वतोऽस्याः को विशेषः । उ च्यते-पूर्वत्राभिधेयं कारणमन्तरेणोक्तमिह तु विकार इति ॥ भूयोऽपि भेदान्तरमाह यस यथात्वं लोके प्रसिद्धमर्थस्य विद्यते तस्मात् । अन्यस्यापि तथात्वं यस्यामुच्येत सान्येयम् ॥ २० ॥ यस्येति । यस्यार्थस्य यथात्वं यादृग्धमत्वं लोके प्रसिद्धं ततोऽर्थादन्यस्यापि तथात्वं तादृग्धर्मता कथ्यते सेयमन्या विभावना ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy