________________
काव्यमाला।
लिखितमिति । अत्र नायिकया का निजकपोले तिलकलेखनं कुर्वाणया तदैव कर्तुमशक्यं नायकचित्ते शरीरलेखनलक्षणं कर्मान्तरं कृतम् ॥ अथोत्प्रेक्षा
यत्रातितथाभूते संभाव्येत क्रियाद्यसंभाव्यम् ।
संभूतमतद्वति वा विज्ञेया सेयमुत्प्रेक्षा ॥११॥ यत्रेति । यत्रासंभाव्यं क्रियादिकं वस्तुनि क्वापि संभाव्यते सेयमुत्प्रेक्षा । यद्यत्र न संभवति कथं तस्य तत्र संभावनेत्याह-अतितथाभूत इति । अतिशयेन तथाभूते । तथात्वमसंभाव्यसंभावनायोग्य प्रकार प्राप्त इत्यर्थः । प्रकारान्तरमाह-संभूतमतद्वति वेति । यत्र वा वस्तुन्यतद्वत्यविद्यमानतत्कियादिकेऽप्यसंभाव्यं क्रियादि तथाभूतत्वात्संभूतमेवोच्येत सान्योत्प्रेक्षा। प्रथमोदाहरणमाह
घनसमयसलिलधौते नभसि शरच्चन्द्रिका विसर्पन्ती ।
अतिसान्द्रतयेह नृणां गात्राण्यनुलिम्पतीवेयम् ॥ १२ ॥ घनेति । अत्र चन्द्रिकाया अनुलेपनमसंभाव्यमेव संभावितमनुलिम्पतीवेति । नैर्मत्यानभसः, घनत्वेन च तस्यास्तथाभूतत्वम् ॥ द्वितीयोदाहरणमाह
पल्लवितं चन्द्रकरैरखिलं नीलाश्मकुट्टिमोर्वीषु ।
ताराप्रतिमाभिरिदं पुष्पितमवनीपतेः सौधम् ॥ १३ ॥ पल्लवितमिति । अत्र सौधाख्ये वस्तुन्यपल्लवितेऽपुष्पिते च चन्दतारकाप्रतिबिम्बसंपर्कात्तद्योग्ये सत्यसंभाव्यमपि पल्लवितत्वं पुष्पितत्वं च संभूतं कथितम् । इवार्थश्च सामर्थ्यागम्यते ॥ प्रकारान्तरमाह
अन्यनिमित्तवशायद्यथा भवेद्वस्तु तस्य तु तथात्वे ।
हेत्वन्तरमतदीयं यत्रारोप्येत सान्येयम् ॥ १४ ॥ अन्येति । सेयमन्योत्प्रेक्षा यस्यां तद्वस्त्वन्यनिमित्तवशात्कारणाद्यथा येन रूपेण भवति तस्य वस्तुनस्तथा भवने तत्वरूपतोत्पत्तौ कारणान्तरमतदीयं यत्तस्य सकं न भवति तदारोप्येतेति ॥ उदाहरणम्
सरसि समुल्लसदम्भसि कादम्बवियोगदूयमानेव । नलिनी जलप्रवेशं चकार वर्षागमे सद्यः ॥ १५ ॥