________________
९ अध्यायः] काव्यालंकारः।
१२३ 'किंचिदिति । यस्मिन्नलंकारे किंचिद्वस्त्ववश्याधेयमिति विद्यमानाधारमेव सनिराधारमित्यभिधीयते स इत्यनेन प्रकारेण विशेषनामालंकारो ज्ञेयः। ननु तथाभूतस्यान्यथा कथनं दोष एव स्यान्न त्वलंकार इत्याह-तागुपलभ्यमानमिति । तथा दर्शनान किंचिदनुपपन्नमित्यर्थः । वस्त्वन्तरेभ्यो विशिष्टधर्माभिधानाद्विशेषसंज्ञा ॥ उदाहरणम्
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ ६॥ दिकमिति । अत्र गिर आधेयाः । प्राण्याश्रितत्वात् । अथ च विनापि कविभिराधारै रमयन्तीत्युपलब्ध्या कथितम् ॥ प्रकारान्तरमाह
यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया ।
युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ।। ७ ॥ यत्रेति । यत्रानेकस्मियादिक आधारे वस्तु सत्तया कथ्यते सोऽत्रान्यः प्रकारान्तरेण विशेष इति । कदाचिद्वस्त्वप्यनेकं स्यात्तत्रातिशयत्वमित्यत आह-एकमिति । एकमपि पर्यायेणानेकत्र तिष्ठत्येवेति न विशेष इत्याह-युगपदित्यादि ॥ उदाहरणम्
हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति ।
वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥ ८ ॥ हृदय इति । अत्रैका तरुणी युगपदनेकस्मिन्नाधारे हृदयादिके वसन्ती कथिता । अत एव परस्या निरवकाशत्वम् ॥ भूयोऽपि भेदान्तरमाह
यत्रान्यत्कुर्वाणो युगपत्कार्यान्तरं च कुर्वीत ।
कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥ ९॥ ... यत्रेति । असावन्यो विशेषो ज्ञेयः, यत्र कर्तान्यत्कर्म कुर्वाणः सन्कर्मान्तरं कुर्वीत । पर्यायेणान्यदपि करिष्यति कोऽतिशय इत्यत आह-युगपत्समकालमिति । एवमपि हसन्पठतीत्यादिवद्भविष्यति तत्किमत्रातिशयत्वमित्याह-कर्तुमशक्यमिति । अशक्यक्रियान्तरकरणादतिशय इत्यर्थः ॥ उदाहरणम्
लिखितं बालमृगाख्या मम मनसि तया शरीरमात्मीयम् । स्फुटमात्मनो लिखन्त्या तिलकं विमले कपोलतले ॥१०॥