________________
१२२
'काव्यमाला |
नवमोऽध्यायः ।
अथ क्रमप्राप्तमतिशयालंकारं वक्तमाह-
यत्रार्थधर्मनियमः प्रसिद्धिबाधाद्विपर्ययं याति ।
कश्चित्क्वचिदतिलोकं स स्यादित्यतिशयस्तस्य ॥ १ ॥
यत्रेति । यत्रालंकारेऽर्थधर्मयोर्नियमो नियतं स्वरूपं विपर्ययमन्यथात्वं गच्छति । नियमश्चेत्कथं विपर्ययं यातीत्याह - प्रसिद्धेरुष्णं दहतीत्यादिकायाः ख्यातेर्यो बाधो बाधनं तस्माद्धेतोः। स इत्यनेन प्रकारेणातिशयो नामालंकारः स्यात् । ननु यदि नियमस्यान्यथात्वमतिशयस्तर्हि स नास्त्येव । नियमस्यान्यथाभावादित्यत आह-कश्चित्क चिदिति । न सर्वः सर्वत्रेत्यर्थः । कथं विपर्ययं यातीत्याह - अतिलोकं लोकातिक्रान्तं यथा भवति । अत एवातिशयनामकत्वम् । तस्येत्युत्तरेण संबन्धः ॥ अथ सामान्यस्यैव विशेषानाह -
पूर्वविशेषोत्प्रेक्षाविभावनातगुणाधिकविरोधाः । विषमासंगतिपिहितव्याघाताहेतवो भेदाः ॥ २ ॥
पूर्वेति । एते तस्य पूर्वादयो द्वादशभेदाः ॥ तत्र पूर्वस्य तावलक्षणमाह
4
यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाज्जनकस्य तु तद्भवेत्पूर्वम् ॥ ३ ॥
यत्रेति । यत्र प्रागेव जन्यस्य कार्यस्य प्रादुर्भावो विवक्ष्यते जनकस्य तु कारणस्य पश्चात्तत्पूर्व नामालंकारः । विवक्षापि कथं तथा भवतीत्याह - अतिप्रबलतया [ हेतुभूतया । तत्र जनकव्यापारं विना जन्योत्पत्तिरिति जन्यस्यातिप्रबलता | ] जन्यं जनयित्वा स्वयमुत्पद्यत इति जनकस्याप्रबलता । विवक्ष्यत इत्यनेन विवक्षामात्रमेतन्न परमार्थं इति सूचयति ॥
उदाहरणम्-
जनमसुलभमभिलषतामादौ दन्दह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति ॥ ४ ॥
जनमिति । अत्र दाहः कार्य पूर्वे जातम्, मदनाभिज्वलनं तु दाहकारणं पश्चादिति विशेषलक्षणम् । ज्वलितोऽभिर्दहतीत्येवंविधश्च योऽर्थधर्मनियमः स क्वचिदेव कामिनि विपर्ययं यात इतीदं सामान्यलक्षणम् । अत्र चातिप्रबलत्वं हेतुः ॥
I
अथ विशेषमाह
किंचिदवश्याधेयं यस्मिन्नभिधीयते निराधारम् । तादृगुपलभ्यमानं विज्ञेयोऽसौ विशेष इति ॥ ५ ॥