________________
१२१
८ अध्यायः]
काव्यालंकार। अर्थक्रिययेति । तयोरुपमानोपमेययोर्यत्सामान्यं साधारणं गुणक्रियासंस्थानादि तत्कारणं यस्यास्तया तथाविधयार्थक्रियया यत्रोपमानस्योपमेयसाम्यमिति तत्साम्यं भवेत् ॥ उदाहरणम्
अभिसर रमणं किमिमां दिशमैन्द्रीमाकुलं विलोकयसि । .
शशिनः करोति कार्य सकलं मुखमेव ते मुग्धे ॥ १०६॥ . अभिसरेति । अत्र शश्युपमानं मुखमुपमेयम् , प्रकाश्यमर्थक्रियासामान्यं कान्तिमत्त्वं गुणः ॥ भेदान्तरमाह
सर्वाकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम् ।
उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तत् ॥ १०७॥ सर्वाकारमिति । यस्मिन्नुपमेयोत्कर्षकराद्विशेषादन्यथा प्रकारान्तरेणोभयोरुपमानोपमेययोः सर्वाकारं सर्वात्मना साम्यमभिधातुमुपमेयोत्कर्षकरविशेष कंचन कविः कुर्वीत तदन्यत्साम्यमलंकारः ॥ उदाहरणम्
मृगं मृगाङ्कः सहजं कलङ्क बिभर्ति तस्यास्तु मुखं कदाचित् ।
आहार्यमेवं मृगनाभिपत्रमियानशेषेण लयोर्विशेषः ॥ १०८ ॥ मृगमिति । अत्राहार्यकादाचित्कमृगनाभिपत्ररूपकालंकारभणनविशेषेणोपमेयस्य मुखस्योत्कर्षः प्रतिपादितः । अन्यथा तु नयनाडादनादिगुणैः सर्वथा साम्यमुक्तमिति ॥ अथ स्मरणम्
वस्तुविशेषं दृष्ट्वा प्रतिपत्ता स्मरति यत्र तत्सदृशम् ।
कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम् ॥ १०९॥ वस्त्विति । यत्र प्रतिपत्ता विशिष्टं वस्तु किंचनावलोक्य कालान्तरानुभूतं वस्त्वन्तरं स्मरति, अद एतत्स्मरणं नामालंकारः । अथ भ्रान्तिमतोऽस्य च को विशेषः । उच्यते--तत्रोपमानावगतिरेव नतूपमेयावगतिः।इह तूपमानस्मरणमात्रं न भ्रान्तिरिति ॥ उदाहरणम्
तव भवने पश्यन्तः स्थूलस्थूलेन्द्रनीलमणिमालाः ।
भूभृन्नाथ मयूराः स्मरन्त्यमी कृष्णसर्पाणाम् ॥ ११ ॥ तवेति । अत्रेन्द्रनीलमणिमालादर्शनात्तत्सदृशं कृष्णसर्पाख्यं वस्त्वन्तरं मयूराः स्मरन्तीति लक्षणयोजना ॥
इति श्रीरुद्रटकते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो.....
....: अटमोऽध्यायः समाप्तः।..........