SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२० काव्यमाला । मधुपानेति । अत्रोपमानं मनः शीघ्रगमनक्रियया दूराधिकमपि पथिकैः सह समानक्रियमुक्तम् ॥ भेदान्तरमाह यत्रैककर्तृका स्यादनेककर्माश्रिता क्रिया तत्र । कथ्येतापरसहितं कर्मैकं सेयमन्या स्यात् ॥ १०१ ॥ यत्रेति । यत्रैककर्तृकानेककर्माश्रिता क्रिया भवति, तत्र चैकं प्रधानमुपमेयाख्यं कर्मापरेण कर्मणोपमानेन सहोच्यते सेयमन्या पुनः सहोतिः ॥ उदाहरणम्- स त्वां बिभर्ति हृदये गुरुभिरसंख्यैर्मनोरथैः सार्धम् । ननु कोपनेऽवकाशः ः कथमपरस्या भवेत्तत्र ॥ १०२ ॥ स इति । अत्रैका क्रिया धारणलक्षणानेकं कर्म नायिकां मनोरथांश्चाश्रिता । तथैक एव नायकस्तस्यां कर्ता । प्रधानमेकं चात्र कर्म नायिकाख्यमुपमेयमपरैर्मनोरथैरुपमानैः सह कथितम् ॥ अथ समुच्चयः- सोऽयं समुच्चयः स्याद्यत्रानेकोऽर्थ एकसामान्यः । अनिवादिद्रव्यादिः सत्युपमानोपमेयत्वे ॥ १०३ ॥ सइति । सोऽयं समुच्चयो नामालंकारो यत्रानेकख्यादिकोऽर्थ उपमानोपमेयलक्षणो इव्यादिव्य गुणक्रियाजादिरूप एकसामान्य एकेन साधारणेन धर्मेण युक्तः स्यादिति । उपमायाः समुच्चयत्व निवृत्त्यर्थमाह-अनिवादिः । उपमायामिवादिशब्दप्रयोग इत्यर्थः । एवमपि रूपकत्वं स्यादित्यत आह- सत्युपमानोपमेयत्व इति । रूपके ह्यभेद एव हेतुभेदः । तयोरनेकग्रहणमत्र त्र्याद्यर्थपरिग्रहार्थम् । त्रिचतुराः पञ्चषा वा यत्रार्था निर्दिश्यन्ते स समुच्चयः शोभामावहतीति भावः ॥ उदाहरणम् जालेन सरसि मीना हिंसैरेणा वने च वागुरया । संसारे भूतसृजा स्नेहेन नराश्च बध्यन्ते ॥ १०४ ॥ जालेनेति । अत्र जालादीनां करणानां सरः प्रमुखाणामधिकरणानां हिंस्रादीनां क - तॄणां बहूनामुपमानोपमेयभावे बन्धनमेकं सामान्यमिति ॥ अथ साम्यम् - अर्थक्रियया यस्मिन्नुपमानस्येति साम्यमुपमेयम् । तत्सामान्यगुणादिककारणया तद्भवेत्साम्यम् ॥ १०५ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy