SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः काव्यालंकारः। ११९ त्वयीति । अत्रार्थविशेषो नायिकामनोलक्षणः पूर्व कान्तदर्शनानितिधर्मयुक्तो यादृशो निर्दिष्टः पुनस्तादृशमेव चन्द्रदर्शनात्कुमुदं विकासयुक्तमिति ॥ अविवक्षितोदाहरणम् लोकं लोलितकिसलयविषवनवातोऽपि मत मोहयति । तापयतितरां तस्या हृदयं त्वद्गमनवार्तापि ॥ ९६ ॥ लोकमिति । अत्राप्राकरणिकस्य विषवनवातस्य मोहकत्वधर्मयुक्तस्य पूर्वमुपन्यासः । पश्चात्प्रस्तुतस्य तापकारित्वयुक्तस्य [गमनवृत्तस्य अर्थवैधर्येण दृष्टान्तः कथं नोक्तः । असंभवादिति ब्रूमः । यत्र हि विशिष्टोऽर्थो विधर्मकश्च दृष्टान्तस्तादृशं लक्ष्यं न पश्यामः। दृश्यते चेत्तदा समुच्चय एव ज्ञेयः॥ अथ पूर्वम् यत्रकविधावौँ जायेते यौ तयोरपूर्वस्य । - अभिधानं प्राग्भवतः सतोऽभिधीयेत तत्पूर्वम् ॥ ९७ ॥ यत्रेति । यत्र द्वावर्थावुपमानोपमेयलक्षणावेकविधौ तुल्यकर्मको यौ जायते भवतस्तयोर्मध्यादपूर्वस्य सह पश्चाद्भाविनो वार्थस्योपमेयस्य प्राक्पूर्व भवतः सतोऽभिधानं क्रियेत तत्पूर्व नामालंकारः॥. उदाहरणम् काले जलदकुलाकुलदशदिशि पूर्व वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते गगनम् ॥ ९८ ॥ काल इति । अत्रार्थों गगनवदनलक्षणौ । तत्र वदनमुपमेयम् । तच्च गगनसमकालं पश्चाद्वा गलत्सलिलभरं भवति । अथ च विरहासहत्वप्रतिपादनार्थ प्रागुक्तम् ॥ अथ सहोक्तिः सा हि सहोक्तिर्यस्यां प्रसिद्धदूराधिकक्रियो योऽर्थः । तस्य समानक्रिय इति कथ्येतान्यः समं तेन ॥ ९९ ॥ सेति । इति वक्ष्यमाणप्रकारेण सा सहोक्तिर्नामालंकारः । यस्यां प्रसिद्धा दूरमतिशयेनाधिका क्रिया यस्य स तथाविध उपमानलक्षणो योऽर्थस्तेन सार्धमन्य उपमेयार्थस्तस्योपमानस्य समानक्रिय इत्यमुना प्रकारेण कथ्यत इति । अथ वास्तवसहोक्तेरस्याश्च को विशेषः । उच्यते-तत्र कार्यकारणभाव औपम्याभावश्च समस्ति । अस्यां तु तद्विपर्ययः॥ उदाहरणमाह मधुपानोद्धतमधुकरमदकलकलकण्ठदीपितोत्कण्ठाः। सपदि मधौ मिजसदनं मनसा सह यान्त्यमी पथिकाः ॥ १० ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy