SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११८ जनयतीति । अत्र चन्द्रकलाकोमलत्वेनापि संतापकत्वे सति विस्मयः । अथ च विरहे तथैव प्रतीयमानत्वाद्वस्तुत्वं प्रसिद्धम् । ततश्च किमत्र चित्रमित्येतेनाक्षिप्य तथात्वसिद्धौ हिमानीलक्षणमुपमानमुक्तम् ॥ 'काव्यमाला अथ विरुद्धोदाहरणमाह तव गणयामि गुणानहमलमथवासत्प्रलापिनीं धिङ्माम् । कः खलु कुम्भैरम्भो मातुमलं जलनिधेरखिलम् ॥ ९१ ॥ तवेति । अत्र समस्तगुणगणनशक्यत्वाद्विरुद्धमथवेत्यादिनाक्षिप्य तद्विरुद्धत्वसिद्ध्यर्थमन्यदुपमानमुक्तं क इत्यादिना ॥ अथ प्रत्यनीकम् - वक्तुमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र । तस्य विरोधीत्युक्त्या कल्प्येत प्रत्यनीकं तत् ॥ ९२ ॥ वक्तुमिति । यत्रोपमेयमुत्तमं वक्तुं तज्जिगीषयोपमेयविजयेच्छया हेतुभूतया तस्योपमेयस्य विरोधीति विपक्षभूतमित्युपमानं कल्प्येत तत्प्रत्यनीकनामालंकारः । ननु विरुद्धयोः कथमौपम्यमित्याह — उक्त्या वचनमात्रेण विरोधो न तत्त्वतः । उपमेयस्तुति - स्त्वत्र तात्पर्यार्थः ॥ उदाहरणम् — यदि तव तथा जिगीषोस्तद्वदनमहारि कान्तिसर्वखम् । मम तत्र किमापतितं तपसि सितांशो यदेवं माम् ॥ ९३ ॥ यदीति । अत्र मुखमुत्तमं वक्तुं तज्जिगीषया शशी उपमानं कल्पितः । एतच्च वचनमात्रेण न तत्त्वतः ॥ अथ दृष्टान्तः अर्थविशेषः पूर्वं यादृङ् न्यस्तो विवक्षितेतरयोः । ताद्दशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दृष्टान्तः ॥ ९४ ॥ अर्थेति । विवक्षितेतरयोः प्रस्तुताप्रस्तुतयोरर्थविशेषयोर्मध्याद्यादृशो येन धर्मेण युक्तोSर्थविशेषः पूर्वमादौ यस्तो भवेत्तादृशं तद्धर्मयुक्तमेव पुनस्तमर्थविशेषमन्यं यत्र वक्ता न्यस्येत्स दृष्टान्तो नामालंकारः । विशेषग्रहणमर्थान्तरन्यासादस्य भेदख्यापनार्थम् । तत्र हि सामान्यविशेषयोर्मध्यादेकमुपमानमन्यदुपमेयम् । इह तु द्वयमपि विशेषरूपमिति । उभयन्यासस्यास्मात्सत्सामान्यत्वादिविशेषः ॥ विवक्षितोदाहरणमाह त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः ॥ ९५ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy