________________
८ अध्यायः ]
काव्यालंकारः ।
अथोभयन्यासमाह
सामान्यावप्यर्थी स्फुटमुपमायाः खरूपतोऽपेतौ ।
निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः ॥ ८५ ॥
सामान्याविति । यत्र प्रकटं विद्यमानसामान्यावपि द्वावर्थौ तुल्यकक्षतया कृत्वा तथा"युपमाया यत्स्वरूपं ततो व्यपेतौ निर्दिश्येते । उपमायां हि सामान्यस्येवादेश्व प्रयोगः, इह तु नैवेत्यर्थः । स उभयन्यासो ज्ञेयः ॥
उदाहरणमाह
अथ भ्रान्तिमान् -
सकलजगत्साधारणविभवा भुवि साधवोऽधुना विरलाः । सन्ति कियन्तस्तरवः सुखादुसुगन्धिचारुफलाः ॥ ८६ ॥ सकलेति । अत्र साधव उपमेयास्तरव उपमानानि । तेषां तुल्यकक्षतया निर्देशः । न तु सताप्युपमानोपमेयभावेनेति ॥
अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् ।
निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ॥ ८७ ॥
११७
अर्थेति । यत्र प्रतिपत्तार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थमुपमानलक्षणं निःसंशयमबुध्येत स इत्यमुना प्रकारेण भ्रान्तिमान्नामालंकारः ॥
अथाक्षेपः
उदाहरणम्
पालयति त्वयि वसुधां विविधाध्वरधूममालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशङ्कया हंसाः ॥ ८८ ॥
पालयतीति । अत्र यज्ञधूमधारिण्यो दिश उपमेयाः वर्षाकाल उपमानम् । तत्रै
चावगतिः ॥
वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वसिद्ध्यै यत्र ब्रूयात्स आक्षेपः ॥ ८९ ॥
वस्त्विति । यत्र वक्ता यत्किमपि लोके प्रसिद्धमिति विरुद्धमिति वा कारणाद्वस्तु भूतं वर्तते, अस्य वचनमाक्षिप्य ततश्चान्यद्वस्त्वन्तरं तथात्वसिद्ध्यै तस्य स्वरूपस्य सिद्ध्यर्थं ब्रूयात्स आक्षेपो नामालंकारः ॥
तत्र प्रसिद्धस्योदाहरणमाह
जनयति संतापमसौ चन्द्रकलाको लापि मे चित्रम् ।
अथवा किमत्र चित्रं दहति हिमानी हि भूमिरुहः ॥ ९० ॥ ३
१२