________________
११६
काव्यमाला |
उदाहरणमाह
तुङ्गानामपि मेघाः शैलानामुपरि विदधते छायाम् । उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ ८० ॥
1
तुङ्गानामिति । अत्रोपमेयविशेषं मेघपर्वताख्यं तुङ्गत्वादि युक्तमभिधाय सामान्यमुपमानं महल्लक्षणमुपन्यस्तम् ॥
द्वितीयमाह -
सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह । रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे ॥ ८१ ॥
सकलमिति । अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्त्वा ततो विशिष्टं नखक्षताद्युपमानमुक्तम् ॥
अयं चार्थान्तरन्यासः साधर्म्य प्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति । तत्र साधर्म्येण भेदद्वयमुक्तम् । वैधर्म्येणाह—
पूर्ववदभिधायैकं विशेषसामान्ययोर्द्वितीयं तु ।
तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम् ॥ ८२ ॥
पूर्ववदिति । यन्त्र विशेषसामान्ययोर्मध्यादेकं पूर्ववत्केनचिद्धर्मेणोपेतमुक्त्वा ततस्तद्धर्मसिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविब्रूयात्सोऽन्योऽयमर्थान्तरन्यासः
उदाहरणमाह
अभिसारिकाभिरभिहतनिबिडतमा निन्द्यते सितांशुरपि । अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति ॥ ८३ ॥ अभिसारिकाभिरिति । अत्र शशी अभिसारिकाश्च विशेषावुपमेयौ पूर्वमुक्तौ, ततो नृणां सकलमिति सामान्य वैधर्म्येणोक्तम् । निन्द्यत इत्यस्य ह्यभिमतीभवतीति विरुद्धम् ॥ द्वितीयमाह
हृदयेन निर्वृतानां भवति नृणां सर्वमेव निर्वृतये ।
इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे ॥ ८४ ॥
हृदयेनेति । अत्र सामान्यमुक्त्वा विशेषो वैधर्म्येणोक्तः । अथायं कोऽलंकारः । यथा- 'प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजलावां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ नह्यत्रौपम्यसद्भावोऽस्तीत्यर्थान्तरन्यासाभास इति ब्रूमः । भामहादिमतेन त्वर्थान्तरन्यास एव । 'अर्थद्वयस्य न्यासः सोऽर्थान्तरन्यासः' इति तदीयलक्षणात् ॥