SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः ] काव्यालंकारः । ११५ उदाहरणमाह मुक्त्वा सलीलहंसं विकसितकमलोज्ज्वलं सरः सरसम् । बकलुलितजलं पल्वलमभिलषसि सखे न हंसोऽसि ॥ ७५ ॥ मुक्त्वेति । अत्र हंसेनोपमानेनोक्तेन सज्जनः प्रतीयते । विशेषणानि चात्र सलीलहंसादीन्यसमानानि । नहि पुरुषः सरो मुक्त्वा पल्वलमभिलषति । इतिवृत्तं तु समानम् । यतस्तस्य शिष्टजनाधिष्ठितं स्थानं त्यजतः खलमन्यं चाश्रयतस्तत्तुल्य उपालम्भ इति ॥ अथ प्रतीपमाह— -- यत्रानुकम्प्यते सममुपमाने निन्द्यते वापि । उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात् ॥ ७६ ॥ यत्रेति । यत्रोपमेयमनुकम्प्यते निन्द्यते वा तत्प्रतीपं नामालंकारः । कस्मात्तस्य निन्दानुकम्पे कियेते इत्याह-- सममुपमाने इति कृत्वा । यत उपमानेन तुल्यमतो निन्दानुकम्पे तस्येत्यर्थः । तादृशं तर्हि किमर्थमुपमानं क्रियत इत्याह- अतिस्तोतुं सातिशयमुपमेयं ख्यापयितुम् । ननु यदि सातिशयं तर्ह्यपमानेन सह साम्यं नास्तीत्याह — दुरवस्थमिति । इतिर्हेतौ । यतो दुष्टामवस्थां प्राप्तम् । उपमेयमुपमानेन समम्, अत एव निन्द्यतेऽनुकम्प्यते वेत्यर्थः । अपिर्विस्मये । एतदेव चालंकारस्य प्रतीपत्वं यदन्येनान्यद्गम्यते ॥ उदाहरणम् वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥ ७७ ॥ वदनमिति । अत्राञ्जनवारिमलिनत्वान्मुखस्य दौरवस्थ्यम्, अत एवेन्दुनोपमीयते । अनुकम्प्यते । तत्वतः स्तुतिर्मुखस्य कृता ॥ निन्दोदाहरणमाह गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ ७८ ॥ गर्वमिति । अत्र बाहुल्योपलभ्यमान नलिन निभनयनवत्तया गर्ववहनान्निन्दा स्तुतिप्रातीतिकी । दुरवस्थं कस्मादपि कारणाद्बोद्धव्यम् ॥ अर्थान्तरन्यासमाह - धर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्ध्यै । यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः ॥ ७९ ॥ धर्मिणमिति । यत्रोपमेयं धर्मिणमर्थविशेषरूपं सामान्यरूपं वा केनचिद्धर्मेण परोपकारादिना युक्तमभिधाय तस्य धर्मस्य दृढीकरणार्थमितरं यथाक्रममेव सामान्यं विशेषरूपं च समानधर्मकमुपमानभूतमर्थं कविर्न्यस्येत्सोऽर्थान्तरन्यासोऽलंकारः ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy