SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मन्येऽहमिन्दुरेषः स्फुटमुदयेऽरुणरुचिः स्थितैः पश्चात् । उदयगिरौ छद्मपरैर्निशातमोभिर्गृहीत इव ॥ ७१ ॥ (युग्मम् ) मदिरेति । मन्य इति । अत्र मुखमुपमेयं लोकमतेनोक्त्वा खमतेनेन्दुमाह । विशे. षणानि तुल्यानि । तथा हि मुखं मदिरामदभरेण लोहितमिन्दुरुदयारुणकान्तिः । मुखं कृष्णकेशकलापेन युक्तं शशी निशातमोभिः ॥ अथोत्तरम् यत्र ज्ञातादन्यत्पृष्टस्तत्त्वेन वक्ति तत्तुल्यम् । कार्येणानन्यसमख्यातेन तदुत्तरं ज्ञेयम् ॥ ७२ ॥ यत्रेति । यत्र वक्ता ज्ञातात्प्रसिद्धादुपमानलक्षणादन्यदुपमेयभूतं वस्तु पृष्टः संस्तत्वेन तद्भावेन तत्तुल्यमुपमानसदृशं वक्ति । तत्तुल्यतापि कुत इत्याह-कार्येण । कीदृशेन । अनन्यसमेन ख्यातेन च । तदुपमानं वर्जयित्वान्यत्राविद्यमानेन । तत्र च प्रसिद्धेनेत्यर्थः । अथ परिसंख्याया वास्तवोत्तरस्यास्य चोत्तरस्य को विशेषः । उच्यतेपरिसंख्यायामशातमेव पृच्छति नियमप्रतीतिश्चौपम्याभावश्च । 'किं सुखमपारतन्त्र्यम्' (७ । ८० ) इत्यत्र ह्यपारतन्छयमेव सुखं नान्यदित्यर्थः । इह तु ज्ञातादन्यत्पृच्छयते, न च नियमप्रतीतिरस्ति, औपम्यं च विद्यते । यथा 'किं मरणम्' ( ८ । ७३ ) इत्यादि। वास्तवोत्तरे तु न नियमप्रतीति प्यौपम्यसद्भावः । केवलं प्रश्नादुत्तरमात्रकथनमेव । यथा लक्ष्मीसौराज्यादि तत्र कथितम् ॥ अथोदाहरणमाह किं मरणं दारिद्यं को व्याधिर्जीवितं दरिद्रस्य । कः स्वर्गः सन्मित्रं सुकलत्रं सुप्रभुः सुसुतः ॥ ७३ ॥ किमिति । अत्र मरणात्प्राणत्यागसकाशात्प्रतीतादन्यत्पृष्टो वक्ता कार्येणाकिंचित्करत्वदुःखकारित्वादिना तत्तुल्यं दारिद्यं मरणमिव कथितवान् ॥ अथान्योक्तिः असमानविशेषणमपि यत्र समानेतिवृत्तमुपमयेम् । उक्तेन गम्यते परमुपमानेनेति सान्योक्तिः ॥ ७४ ॥ असमानेति । यत्रासाधारणविशेषणमप्युपमेयमुपमानेनोक्तेन परं केवलं गम्यते प्रतीयते सेत्युक्तेन प्रकारेणान्योक्तिर्भवति । ननु यद्यसमानविशेषणं तत्कथं तेन गम्यत इत्याह-समानवृत्तमिति । समानं सदृशमितिवृत्तमर्थशरीरं यस्य तत्तथोक्तम् । यत उपमानतुल्यव्यवहारमुपमेयमतस्तेन गम्यत इत्यर्थः । अपिशब्दात्किंचित्समानविशेषणत्वेऽपि कापि भवतीति सूच्यत इति ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy