________________
८ अध्यायः ]
काव्यालंकारः ।
११३
भ्रान्तिरित्यर्थः । तथैकत्वगतो वेति । यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य ता - त्त्विकमन्यस्यातात्त्विकमिति संदेह इत्यर्थः ॥
उदाहरणद्वयमप्यार्ययैकयाह
गमनमधीतं हंसैस्त्वत्तः सुभगे त्वया नु हंसेभ्यः ।
किं शशिनः प्रतिबिम्बं वदनं ते किं मुखस्य शशी ॥ ६६ ॥
गमनमिति । अत्राद्यार्धेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः । द्वितीये तु मुखशशिनोस्तात्त्विकातात्त्विकत्वमेकत्र संदिग्धमिति । अथायं कोऽलंकारः । यथा भारवेः 'रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥' औपम्याभास इति केचित् । उत्प्रेक्षैवेयमित्यन्ये ॥
अथ समासोक्तिः
सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् ।
उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ ६७ ॥
सकलेति । यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणमभिधीयमानं सदु - पमेयं गमयेत्सा समासोक्तिः । सकलग्रहणं मिश्रत्व निवृत्त्यर्थम् । एकग्रहणं तूपमेयवाचि - पदप्रयोगनिवृत्त्यर्थम् । सग्रहणं प्रतिपादनसमर्थत्वख्यापनार्थम् ॥
उदाहरणमाह
फलमविकलमलघीयो लघुपरिणति जायतेऽस्य सुखादु । प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः ॥ ६८ ॥ फलमिति । फलमाम्रादिकम् । दृष्टार्थश्चेत्यत्र तरुरुपमानं गुणसाधर्म्यात्सत्पुरुषमेव
गमयति ॥
अथ मतम् -
तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमेयम् ।
ब्रूयादथोपमानं तथा विशिष्टं स्वमतसिद्धम् ॥ ६९ ॥
तदिति । तन्मतनामालंकारः । इत्यमुना वक्ष्यमाणप्रकारेण । यत्र वक्तान्यमतेन पराभिप्रायेण सिद्धं लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात् । किंभूतम् । तथाविशिष्टमुपमेयधर्मसदृशम् । पुनश्च कीदृशम् । खमतेन स्वाभिप्रायेण तथोपमानत्वेन सिद्धम् । उपमेयमेव तत्त्वतस्तदित्यर्थः ॥
उदाहरणमाह
मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिल्लम् ।
तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम् ॥ ७० ॥