________________
१४०
काव्यमाला।
क्षार्थान्तरन्यासोपमानां संकरः । यथा च–'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमंशोक केवलमहं धात्रा सशोकः कृतः ॥ एतौ श्लेषव्यतिरेको । एवमन्यदपि बोद्धव्यमिति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो
दशमोऽध्यायः समाप्तः ।
एकादशोऽध्यायः । अर्थस्यालंकारा अभिहिताः । संप्रति दोषाः कथ्यन्ते । नन्वर्थालंकारप्रतिपादनात्प्रागेवार्थदोषाः परिहृता एव तत्किमिति पुनस्ते कथ्यन्त इत्याह
परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात् ।
अयमुच्यते ततोऽन्यस्तकारणमन्यथोक्तौ च ॥ १ ॥ परिहृत इति । 'सर्वः स्खं खं रूपम्' (७ । ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतकथनलक्षणो यो महान्दोषः सोऽस्माभिः 'तं च न खलु बध्नीयानिष्कारणमन्यथातिरसात्' (७।७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव । यस्तु ततोऽन्यथोक्तेरन्यः स्वल्पदोषः सोऽयमधुनोच्यते । तथा तस्यार्थस्यान्यथोक्तौ यत्कारणं तदप्युच्यते । परिहृतमेव सर्व दोषजातमन्यथोक्तिपरिहारद्वारेण । किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते । यत्तु विद्यते तदधुना परिहियते ॥ अथ तानेव दोषानुद्दिशति
अपहेतुरप्रतीतो निरागमो बाधयन्नसंबद्धः ।
ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः ॥ २ ॥ अपहेतुरिति । अपहेत्वादयो नवार्थदोषाः । इतिशब्दो हेत्वर्थे प्रत्येकमभिसंबध्यते । यतोऽपहेतुरतो दुष्ट इत्यर्थः । एवमन्यत्रापि योज्यम् ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह
अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः ।
याति तथात्वे युक्त्या बलवत्या बाध्यते परया ॥ ३ ॥ अपहेतुरिति । असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वे तद्धर्मतायां हेतुत्वं याति । स च हेतुतां गतः सन्नपरया बलिष्ठया युक्त्या बाध्यते । यदा चार्थहेतुत्वसद्भावस्तदान्यथोक्तिपरिहारेण न परिहृतः ॥
उदाहरणम्___ तव दिग्विजयारम्भे बलधूलीबहलतोयजनितेषु ।
गगनस्थलेषु भानोश्चक्रमभूद्रथभराभिज्ञम् ॥ ४ ॥