SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११ अध्यायः ] काव्यालंकारः । १४१ तवेति । गतार्थमेव । अत्र धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव । किं तुं स्थलस्य गगने निराधारत्वादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या बाध्यते ॥ अथाप्रतीतः अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृद्धैः । शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति ॥ ५ ॥ अर्थ इति । अयमप्रतीतोऽर्थो भण्यते यो विद्यमानोऽपि वृद्धैः पूर्वकविभिर्न प्रयुज्यते । उदाहरणम् – [ शरदिति ।] प्रसरद्रोमाञ्चनिवहा तन्वी भाति । शरच्च पुष्प्यत्पुलकाख्यत्रक्षविशेषनिवहा । अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविभिर्न प्रत्युक्त इति न प्रयोज्यः ॥ अथ निरागम: आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति । सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च ॥ ६ ॥ आगमेति । योऽर्थ आगमात्सिद्धान्ताद्गम्यते, अथ चागमनिरपेक्ष एवोच्यते स इत्यनेन प्रकारेण निरागमः । उदाहरणम् - सततमिति । अत्र विप्रस्य राजसूयाश्वमेध यागौ कथितौ । तौ च वेदगम्यौ । वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम् ॥ अथ बाधयन्— यः पूर्वमन्यथोक्तं तद्वक्तकमेव बाधयेदर्थम् । अर्थः स बाधयन्निति मृगाक्षि नेत्रे तवानुपमे ॥ ७ ॥ य इति । योऽर्थ उत्तरकालं भण्यमानः समानवक्तृकं पूर्वमन्यथोक्तमर्थ बाधयेत्स बाधयन्निति भण्यते । यथा --: -- मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम् । इदं चात्र निदर्शनम् । यथा'वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसादिव । तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥' अत्र नाभेरूर्ध्वमनुपमं वपुरित्याद्युक्त्वा मृगीदृश इत्युक्तम् ॥ अथासंबद्धः— प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः । स इति गता ते कीर्तिर्बहुफेनं जलधिमुल्लङ्घय ॥ ८ ॥ प्रक्रान्तेति । योऽर्थः प्रक्रान्तार्थक्रमायातोऽपि प्रक्रान्तेऽर्थेऽनुपयोगी सोऽसंबद्ध इत्युच्यते । उदाहरणम् —गता ते कीर्तिरित्यादि । अत्र जलधौ संबद्धत्वात्फेनानां बहुफेनत्वं क्रमप्राप्तम् । अथ च प्रस्तुतेऽर्थेऽनुपयोगि । यदि बहुफेनत्वं जलधेर्दुस्तरत्वे १४
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy