Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 145
________________ १४० काव्यमाला। क्षार्थान्तरन्यासोपमानां संकरः । यथा च–'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमंशोक केवलमहं धात्रा सशोकः कृतः ॥ एतौ श्लेषव्यतिरेको । एवमन्यदपि बोद्धव्यमिति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो दशमोऽध्यायः समाप्तः । एकादशोऽध्यायः । अर्थस्यालंकारा अभिहिताः । संप्रति दोषाः कथ्यन्ते । नन्वर्थालंकारप्रतिपादनात्प्रागेवार्थदोषाः परिहृता एव तत्किमिति पुनस्ते कथ्यन्त इत्याह परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात् । अयमुच्यते ततोऽन्यस्तकारणमन्यथोक्तौ च ॥ १ ॥ परिहृत इति । 'सर्वः स्खं खं रूपम्' (७ । ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतकथनलक्षणो यो महान्दोषः सोऽस्माभिः 'तं च न खलु बध्नीयानिष्कारणमन्यथातिरसात्' (७।७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव । यस्तु ततोऽन्यथोक्तेरन्यः स्वल्पदोषः सोऽयमधुनोच्यते । तथा तस्यार्थस्यान्यथोक्तौ यत्कारणं तदप्युच्यते । परिहृतमेव सर्व दोषजातमन्यथोक्तिपरिहारद्वारेण । किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते । यत्तु विद्यते तदधुना परिहियते ॥ अथ तानेव दोषानुद्दिशति अपहेतुरप्रतीतो निरागमो बाधयन्नसंबद्धः । ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः ॥ २ ॥ अपहेतुरिति । अपहेत्वादयो नवार्थदोषाः । इतिशब्दो हेत्वर्थे प्रत्येकमभिसंबध्यते । यतोऽपहेतुरतो दुष्ट इत्यर्थः । एवमन्यत्रापि योज्यम् ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः । याति तथात्वे युक्त्या बलवत्या बाध्यते परया ॥ ३ ॥ अपहेतुरिति । असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वे तद्धर्मतायां हेतुत्वं याति । स च हेतुतां गतः सन्नपरया बलिष्ठया युक्त्या बाध्यते । यदा चार्थहेतुत्वसद्भावस्तदान्यथोक्तिपरिहारेण न परिहृतः ॥ उदाहरणम्___ तव दिग्विजयारम्भे बलधूलीबहलतोयजनितेषु । गगनस्थलेषु भानोश्चक्रमभूद्रथभराभिज्ञम् ॥ ४ ॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188