Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
११ अध्यायः ]
काव्यालंकारः ।
१४१
तवेति । गतार्थमेव । अत्र धूलेर्बहलत्वलक्षणोऽर्थः स्थलत्वे हेतुतां यात्येव । किं तुं स्थलस्य गगने निराधारत्वादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या बाध्यते ॥
अथाप्रतीतः
अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृद्धैः ।
शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति ॥ ५ ॥
अर्थ इति । अयमप्रतीतोऽर्थो भण्यते यो विद्यमानोऽपि वृद्धैः पूर्वकविभिर्न प्रयुज्यते । उदाहरणम् – [ शरदिति ।] प्रसरद्रोमाञ्चनिवहा तन्वी भाति । शरच्च पुष्प्यत्पुलकाख्यत्रक्षविशेषनिवहा । अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविभिर्न प्रत्युक्त इति न प्रयोज्यः ॥
अथ निरागम:
आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति । सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च ॥ ६ ॥
आगमेति । योऽर्थ आगमात्सिद्धान्ताद्गम्यते, अथ चागमनिरपेक्ष एवोच्यते स इत्यनेन प्रकारेण निरागमः । उदाहरणम् - सततमिति । अत्र विप्रस्य राजसूयाश्वमेध यागौ कथितौ । तौ च वेदगम्यौ । वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम् ॥
अथ बाधयन्—
यः पूर्वमन्यथोक्तं तद्वक्तकमेव बाधयेदर्थम् ।
अर्थः स बाधयन्निति मृगाक्षि नेत्रे तवानुपमे ॥ ७ ॥
य इति । योऽर्थ उत्तरकालं भण्यमानः समानवक्तृकं पूर्वमन्यथोक्तमर्थ बाधयेत्स बाधयन्निति भण्यते । यथा --: -- मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम् । इदं चात्र निदर्शनम् । यथा'वपुरनुपमं नाभेरूर्ध्वं विधाय मृगीदृशो ललितललितैरङ्गन्यासैः पुरा रभसादिव । तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥' अत्र नाभेरूर्ध्वमनुपमं वपुरित्याद्युक्त्वा मृगीदृश इत्युक्तम् ॥
अथासंबद्धः—
प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः ।
स इति गता ते कीर्तिर्बहुफेनं जलधिमुल्लङ्घय ॥ ८ ॥
प्रक्रान्तेति । योऽर्थः प्रक्रान्तार्थक्रमायातोऽपि प्रक्रान्तेऽर्थेऽनुपयोगी सोऽसंबद्ध इत्युच्यते । उदाहरणम् —गता ते कीर्तिरित्यादि । अत्र जलधौ संबद्धत्वात्फेनानां बहुफेनत्वं क्रमप्राप्तम् । अथ च प्रस्तुतेऽर्थेऽनुपयोगि । यदि बहुफेनत्वं जलधेर्दुस्तरत्वे
१४

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188