Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
९ अध्यायः ]
काव्यालंकारः ।
१२७
यत्रेति । यत्रैकस्मात्कारणाद्वस्तुद्वयमुत्पद्यत इत्युच्यते तदधिकम् । किमेतावतातिशः यत्वमित्याह – अन्योन्यविरुद्धम् । परस्परविरुद्धखभावमित्यर्थः । प्रकारान्तरमाह - वि रुद्धाभ्यां बलवतीभ्यां क्रियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम् ॥ उदाहरणम्
मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम् |
उदपद्यत नीरनिधेर्विषममृतं चेति तच्चित्रम् ॥ २७ ॥
मुञ्चतीति । अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्धं जायमानमुतम् । उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम् । विपामृतयोर्हि न परस्परं विरोधः । किं तु मारणजीवनक्रिये विरुद्धे । इत्युदाहरणद्वयमेतत् ॥ भेदान्तरमाह
यत्राधारे सुमहत्याधेयमवस्थितं तनीयोऽपि ।
अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ २८ ॥
यत्रेति । यत्र सुमहत्यप्याधारेऽतिशयवत्यप्याधेयं वस्त्ववस्थितं कुतश्चित्कारणान् माति तदपरमधिकं बोद्धव्यम् ॥
उदाहरणम्
जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तत् । पर्याप्तमासीदखिलं न तस्यास्तत्रावकाशस्तु कुतोऽपरस्याः ॥ २९ ॥ जगदिति । अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं खल्पमपि न माति । तस्यास्तत्रामानमनुरागाद्बहिरपि सर्वत्र दर्शनात् । तन्वीति साभिप्रायमत्र नाम ॥ अथ विरोधः—
यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् ।
एकत्रावस्थानं समकालं भवति स विरोधः ॥ ३० ॥
यस्मिन्निति । यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः । परस्परमन्योन्यम् । न त्वाधारेण सह । तथा सर्वप्रकारं सजातीयैर्विजाती`यैश्च सहेत्यर्थः । समकालमिति युगपत् । अत एवातिशयत्वं भवति ॥ एवं सर्वथा विरोधे सति कियन्तो भेदा इति तत्संख्यामाह
अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः । भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम् ॥ ३१ ॥
अस्येति । अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो भेदाः सन्ति । यथा द्रव्ययोर्विरोधो द्रव्यविरोधः । एवं गुणविरोधः क्रियाविरोधो जातिविरो

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188