Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 135
________________ १३.० काममा | भवेतद्विषमनामालंकारः । ननु यदि वस्तुनोः कार्यकारणभावः, कथं तदुमयोः क्रिययोर्वा विरोधः । सत्यम् । अत एवातिशयत्वम् ॥ उदाहरणम् अरिकरिकुम्भविदारणरुधिरारुण दारुणादतः खड्गात् । वसुधाधिपते धवलं कान्तं च यशो बभूव तव ॥ ४६ ॥ अरीति । अत्र कारणस्य खङ्गस्य गुणौ लौहित्यदारुणत्वे, कार्यस्य यशसो धनलत्नकान्तत्वे, तेषां चान्योन्यं विरोधः ॥ तथा आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ४७ ॥ आनन्देति । अत्र कारणस्य नायिकायाः क्रिया आनन्ददानम्, कार्यस्य तु विरहस्य तापनम्, तयोश्चान्योन्यं विरोधः ॥ अथासंगतिः विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥ ४८ ॥ 1 विस्पष्ट इति । सेयमसंगतिर्बोद्धव्या, यस्यां विस्पष्टे प्रकटे समकालमेव च कार्य - मन्त्रोपलभ्यते कार्य वान्यत्रेति; अत एवासंगतिर्नाम अतिशयत्वं च ॥ उदाहरणम् नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते । अङ्गान्यसंगतानां यूनां हृदि वर्धते कामः ॥ ४९ ॥ नवेति । अत्राङ्गपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पृष्टमेवोपलभ्यते ॥ अथ पिहितम् - यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं पिदध्यादाविर्भूतमपि तत्पिहितम् ॥ ५० ॥ यत्रेति । यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्तातिप्रबलतया हेतुभूतया पिदध्यात्स्थयेत्तत्पहितं नामालंकारः । ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिशयत्वमित्याहअसमानम् । असदृशमित्यर्थः । कदाचिदसमानमप्यलब्धपाटवं स्यादित्यत आहआविर्भूतमपीत्यर्थः । असमानग्रहणेन प्रथमातद्गुणालंकाराद्विशेषः ख्याप्यते, तत्र येकगुणानामर्थानां संसर्गे नानात्वं लक्ष्यत इत्युक्तम् । द्वितीयात्तर्हि कोऽस्य विशेषः । उच्यते - तत्रासमानगुणं वस्तु वस्त्वन्तरेण प्रबलगुणेन संसृष्टं तद्गुणतां प्राप्यते, न त

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188