Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 112
________________ ८ अध्यायः] काव्यालंकारः। १०७ तु छद्मलक्ष्मव्याजव्यपदेशादिभिः शब्दैरुपमानोपमेययोरभेदो भेदश्च विवक्षित इति । परमार्थतस्तूभयत्राभेद एवेति ॥ उदाहरणम् साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते । नान्यद्भूतसृजा सृष्टं लोके मिथुनमीदृशम् ॥ ३९ ॥ साक्षादिति । सुगममेव ॥ अथ भेदान्तरमाह उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यत्तु प्रयुज्यते तद्रूपकमन्यत्समासोक्तम् ॥ ४० ॥ उपसर्जनेति । एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपरं समासोक्तं रूपकम् । समासोपमाया रूपकत्वनिवृत्त्यर्थमाह-उपसर्जनमप्रधानमुपमेयं यत्र। यथा--दुर्जन एव पन्नगो दुर्जनपन्नगः । समासोपमायां तूपमानमुपसर्जनम् । यथाशशीव मुखं यस्याः सा शशिमुखी । तुशब्दः समुच्चये । उभयग्रहणं नियमार्थम् । उभयोरेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः ॥ सामान्य रूपकभेदद्वयमेतदभिधायेदानीमेतद्विशेषानाह सावयवं निरवयवं संकीर्ण चेति भिद्यते भूयः । द्वयमपि पुनर्द्विधैतत्समस्तविषयैकदेशितया ॥ ४१ ॥ सावयवमिति । एतद्वाक्यसमासलक्षणं रूपकद्वयं भूयः सावयवं निरवयवं संकीर्ण चेत्यमुना प्रकारेण त्रिधा भिद्यते । पुनश्च द्वयमपि वाक्यसमासलक्षणमेतद्रूपकं समस्त. विषयतयैकदेशितया च द्विधा भिद्यते । न तु सावयवादिभेदभिन्नं सत् । निरवयवादिषु सर्वत्रासंभवात् । तेनात्र भेदद्वये सावयवादिप्रभेदानुप्रवेशो यथासंभवमेव भवतीति ॥ इदानीमेषामेव लक्षणमाह-तत्र सावयवम् उभयस्यावयवानामन्योन्यं तद्वदेव यत्क्रियते।। तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात् ॥ ४२ ॥ उभयस्येति । उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यद्रूपणं तद्वदेवेति समस्तोपमावस्क्रियते तत्सावयवं रूपकम् । यथा समस्तोपमायामुपमानोपमेययो. स्तदवयवानां चौपम्यम् , एवमिहापि रूपणमित्यर्थः । तच्च सहजैराहायरुभयैश्च तैरवयवैस्त्रेधा स्यात्रिविधं भवेत् ॥ उदाहरणम् ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरैर्दलैश्च तासां नवबिसनालानि बाहुलताः ॥ ४३ ।।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188