Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 110
________________ ८ अध्यायः ] काव्यालंकारः । १०५ णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा । सरोजिनीचारुतनुर्विभाति प्रियालि - नीलोज्ज्वलकुन्तलासौ ॥' तथा — 'पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा । दशनैः केसराकारैरलिनीलशिरोरुहा ॥ समासोपमेयं द्विधा । 'लतायसेऽतितन्वी त्वमोष्ठस्ते पलवायते । सितपुष्पायते हासो भृङ्गायन्ते शिरोरुहाः ॥ ' ' मुखेन पद्मकल्पेन भाति सा हंसगामिनी । दोर्भ्यां मृणालकल्पाभ्यामलिनीलैः शिरोरुहैः ॥' प्रत्ययोपमेयं द्विधा ॥ अथोत्प्रेक्षा अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥ ३२ ॥ अतिसारूप्यादिति । उपमानोपमेययोरतिसादृश्याद्धेतोरैक्यमभेदं विधाय । कीदृशं तत् । सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सत्त्वं यत्र तत्तथाविधम् । अनन्तरं च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा । इत्यमुना प्रकारेणोत्प्रेक्षा भण्यते । चशब्दोऽतद्गुणाद्यनध्यारोपितस्यापि समुच्चयार्थः । येन सिद्धोपमानसद्भावे तयोरभेदमात्रेऽप्युत्प्रेक्षा दृश्यते । यथा - 'तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥' इत्यादि ॥ उदाहरणम् - चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधक्षुरिव ॥ ३३ ॥ 1 चम्पकेति । अत्रोपमेयश्चम्पकराशिरुपमानं मदनाग्निस्तयोर्लोहित्येन सारूप्यादैक्यं सिद्धोपमानसद्भावं विधाय ततोऽग्नेर्यद्दर्शनमचेतनत्वादसंभवि तदारोपितमिति ॥ प्रकारान्तरमाह सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम् । उपमानप्रतिबद्धापरोपमानस्य तत्त्वेन ॥ ३४ ॥ सेति । इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्तरस्य तत्त्वेन ताद्रूप्येण संभाव्यते ॥ उदाहरणम् आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण । शशिशङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः ॥ ३५ ॥ आपाण्डुगण्डेति । अत्र शश्युपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम् । तत्सादृश्येनोपमेयं नायिका मुखगतमन्यदुपमेयं मृगनाभिपत्रलक्षणं संभावितमिति ॥ ११

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188