Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 109
________________ १०४ काव्यमाला । न्द्राय मूर्ती त्वं कृतान्ताय से युधि । दाने कर्णाय से राजन्सुनीतो भास्कराय से ॥' प्रत्ययोपमेयम् ॥ भेदान्तरमाह - अर्थानामौपम्ये यत्र बहूनां भवेद्यथापूर्वम् । उपमानमुत्तरेषां सेयं रशनोपमेत्यन्या ॥ २७ ॥ अर्थानामिति । यत्रार्थानामुपमानोपमेयानां बहूनां सादृश्ये सति तेषामेव मध्याद्यथापूर्व यो यः पूर्वः स स उत्तरेषामुपमानं भवेत्सेयं रशनासादृश्याद्वशनोपमेत्यन्या । यथा रशनायां परस्परमाभरणानां शृङ्खलाकटकवत्संबन्ध एवमिहार्थानामिति पूर्ववत् ॥ उदाहरणम् नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसद्दयुति तरुणीवदनं शरत्कुरुते ॥ २८ ॥ नभ इति । अत्र गगनादिरर्थः पूर्व उत्तरेषां सलिलादीनामुपमानम् । एषा वाक्यरशनोपमा । अन्ये त्विमे - ' शरत्प्रसन्नेन्दुसुकान्ति ते मुखं मुखत्रि लीलाम्बुजमम्बुजारुणौ । करौ करश्रीरवतंसपलवो वरानने पल्लवलोहितोऽघरः ॥' समासरशनोपमेयम् । 'चन्द्रायते शुक्लरुचाय हंसो हंसायते चारुगतेन कान्ता । कान्तायते तस्य मुखेन वारि वारयते स्वच्छतया विहायः ॥' प्रत्ययरशनोपमेयम् ॥ भूयोऽपि भेदान्तरमाह - क्रियतेऽर्थयोस्तथा या तदवयवानां तथैकदेशानाम् । परमन्या ते भवतः समस्तविषयैकदेशिन्यौ ॥ २९ ॥ क्रियत इति। अर्थयोरुपमानोपमेययोरवयविनोस्तदवयवानां च सहजाहार्यो भयरूपाणां या क्रियते, न त्ववयविनोः, एषान्या एकदेशविषया । इति द्वितीयः प्रकारः ॥ उदाहरणम् – अलिवलयैरलकैरिव कुसुमस्तचकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥ ३० ॥ अलिवलयैरिति । अत्र लता ललना अवयविन्योऽलिवलयादयश्चावयवाः सर्व एवोपमिताः । इत्येषा समस्त विषया ॥ कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥ ३१ ॥ कमलदलैरिति । अत्रावयवानामेव कमलदलादीनामौपम्यं न त्ववयविन्या नलिन्याः प्रतीयते । [वास्यां] इत्येषैकदेशविषया । द्विविधापि वाक्योपमेयम् । अन्ये त्विमे — 'मृ

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188