________________
१०४
काव्यमाला ।
न्द्राय मूर्ती त्वं कृतान्ताय से युधि । दाने कर्णाय से राजन्सुनीतो भास्कराय से ॥' प्रत्ययोपमेयम् ॥
भेदान्तरमाह -
अर्थानामौपम्ये यत्र बहूनां भवेद्यथापूर्वम् ।
उपमानमुत्तरेषां सेयं रशनोपमेत्यन्या ॥ २७ ॥
अर्थानामिति । यत्रार्थानामुपमानोपमेयानां बहूनां सादृश्ये सति तेषामेव मध्याद्यथापूर्व यो यः पूर्वः स स उत्तरेषामुपमानं भवेत्सेयं रशनासादृश्याद्वशनोपमेत्यन्या । यथा रशनायां परस्परमाभरणानां शृङ्खलाकटकवत्संबन्ध एवमिहार्थानामिति पूर्ववत् ॥
उदाहरणम्
नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसद्दयुति तरुणीवदनं शरत्कुरुते ॥ २८ ॥
नभ इति । अत्र गगनादिरर्थः पूर्व उत्तरेषां सलिलादीनामुपमानम् । एषा वाक्यरशनोपमा । अन्ये त्विमे - ' शरत्प्रसन्नेन्दुसुकान्ति ते मुखं मुखत्रि लीलाम्बुजमम्बुजारुणौ । करौ करश्रीरवतंसपलवो वरानने पल्लवलोहितोऽघरः ॥' समासरशनोपमेयम् । 'चन्द्रायते शुक्लरुचाय हंसो हंसायते चारुगतेन कान्ता । कान्तायते तस्य मुखेन वारि वारयते स्वच्छतया विहायः ॥' प्रत्ययरशनोपमेयम् ॥
भूयोऽपि भेदान्तरमाह -
क्रियतेऽर्थयोस्तथा या तदवयवानां तथैकदेशानाम् । परमन्या ते भवतः समस्तविषयैकदेशिन्यौ ॥ २९ ॥
क्रियत इति। अर्थयोरुपमानोपमेययोरवयविनोस्तदवयवानां च सहजाहार्यो भयरूपाणां या क्रियते, न त्ववयविनोः, एषान्या एकदेशविषया । इति द्वितीयः प्रकारः ॥
उदाहरणम् –
अलिवलयैरलकैरिव कुसुमस्तचकैः स्तनैरिव वसन्ते ।
भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥ ३० ॥ अलिवलयैरिति । अत्र लता ललना अवयविन्योऽलिवलयादयश्चावयवाः सर्व एवोपमिताः । इत्येषा समस्त विषया ॥
कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते ।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥ ३१ ॥
कमलदलैरिति । अत्रावयवानामेव कमलदलादीनामौपम्यं न त्ववयविन्या नलिन्याः प्रतीयते । [वास्यां] इत्येषैकदेशविषया । द्विविधापि वाक्योपमेयम् । अन्ये त्विमे — 'मृ