SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः] काव्यालंकारः। १०३ उदाहरणम् - नवविकसितकमलकरे कुवलयदललोचने सितांशुमुखि । दहसि मनो यत्तत्किं रम्भागर्भोरु युक्तं ते ॥ २२ ॥ नवेति । अत्र नवविकसितकमलमिव रम्यौ करौ यस्या इति बहुव्रीहिः ॥ अथ प्रत्ययोपमामाह उपमानात्सामान्ये प्रत्ययमुत्पाद्य या प्रयुज्येत । सा प्रत्ययोपमा स्यादन्तर्भूतेवशब्दार्था ॥ २३ ॥ उपमानादिति । उपमानादुपमानपदादन्यतो वा धात्वादिकात्प्रत्ययं सामान्येन साधारणधर्मविषय उत्पाद्य या प्रयुज्यते सा प्रत्ययोपमा । सा च प्रत्ययान्तशब्देऽन्तर्भूतेवशब्दा॥ उदाहरणम्पद्मायते मुखं ते नयनयुगं कुवलयायते यदिदम् । कुमुदायते तथास्मितमेवं शरदेव सुतनु त्वम् ॥ २४ ॥ पद्मायत इति । पद्ममिवाचरतीत्यादि वाक्यम् । एवं धातोः प्रत्यये उष्ट्रकोशीत्यादि द्रष्टव्यमिति ॥ एवमुपमात्रयमभिधायेदानीमेतद्भेदान्सामान्येनाह मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् । उपमीयेतानेकैरुपमानैरेकसामान्यैः ॥ २५ ॥ मालोपमेति। यत्रैकमुपमेयं वस्त्वनेकसामान्यमनेकधर्मकमेकसामान्यरेकैकधर्मयुक्तैरनेकैरुपमानैरुपमीयते सेयमित्यमुना प्रकारेण मालोपमा। अथायं कोऽलंकारः-'गायन्ति किंनरगणाः सह किंनरीभिरुत्तुङ्गशृङ्गकुहरेषु हिमाचलस्य । क्षीरेन्दुकुन्ददलशङ्खमृणालनालनीहारहारहरहाससितं यशस्ते ॥' मालोपमैवेत्याहुः । यत एकत्वेऽपि शौक्लयस्यानेकसामान्यं विद्यत एव । तस्यानेकरूपत्वादन्यादृशमेव हि तच्छवेऽन्यादृशं चन्द्रादौ तच्च सर्व यशसि विद्यत इति । केचित्तु मालोपमाभास इत्याहुः ॥ उदाहरणम् श्यामालतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे । हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ २६ ॥ श्यामालतेति । अत्रोपमेया कान्ता तनुत्वाद्यनेकधर्मयुक्ता । श्यामालतादीन्येकैकधर्मयुक्तान्युपमानानि । एषा वाक्योपमा । अन्ये विमे–'नवश्यामालतातन्वी शरच्चन्द्रांशुसप्रभा । मत्तहंसीकलालापा कस्य सा न हरेन्मनः ॥' समासोपमेयम् । 'शरच्च
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy