________________
८ अध्यायः ]
काव्यालंकारः ।
१०५
णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा । सरोजिनीचारुतनुर्विभाति प्रियालि - नीलोज्ज्वलकुन्तलासौ ॥' तथा — 'पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा । दशनैः केसराकारैरलिनीलशिरोरुहा ॥ समासोपमेयं द्विधा । 'लतायसेऽतितन्वी त्वमोष्ठस्ते पलवायते । सितपुष्पायते हासो भृङ्गायन्ते शिरोरुहाः ॥ ' ' मुखेन पद्मकल्पेन भाति सा हंसगामिनी । दोर्भ्यां मृणालकल्पाभ्यामलिनीलैः शिरोरुहैः ॥' प्रत्ययोपमेयं द्विधा ॥
अथोत्प्रेक्षा
अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥ ३२ ॥
अतिसारूप्यादिति । उपमानोपमेययोरतिसादृश्याद्धेतोरैक्यमभेदं विधाय । कीदृशं तत् । सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सत्त्वं यत्र तत्तथाविधम् । अनन्तरं च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा । इत्यमुना प्रकारेणोत्प्रेक्षा भण्यते । चशब्दोऽतद्गुणाद्यनध्यारोपितस्यापि समुच्चयार्थः । येन सिद्धोपमानसद्भावे तयोरभेदमात्रेऽप्युत्प्रेक्षा दृश्यते । यथा - 'तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥' इत्यादि ॥ उदाहरणम् -
चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधक्षुरिव ॥ ३३ ॥
1
चम्पकेति । अत्रोपमेयश्चम्पकराशिरुपमानं मदनाग्निस्तयोर्लोहित्येन सारूप्यादैक्यं सिद्धोपमानसद्भावं विधाय ततोऽग्नेर्यद्दर्शनमचेतनत्वादसंभवि तदारोपितमिति ॥
प्रकारान्तरमाह
सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम् । उपमानप्रतिबद्धापरोपमानस्य तत्त्वेन ॥ ३४ ॥
सेति । इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्तरस्य तत्त्वेन ताद्रूप्येण संभाव्यते ॥
उदाहरणम्
आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण ।
शशिशङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः ॥ ३५ ॥
आपाण्डुगण्डेति । अत्र शश्युपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम् । तत्सादृश्येनोपमेयं नायिका मुखगतमन्यदुपमेयं मृगनाभिपत्रलक्षणं संभावितमिति ॥
११