SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०६ काव्यमाला। भूयोऽपि भेदान्तरमाह यत्र विशिष्टे वस्तुनि सत्यसदारोप्यते समं तस्य । वस्त्वन्तरमुपपत्त्या संभाव्यं सापरोत्प्रेक्षा ॥ ३६ ॥ यत्रोत्प्रेक्षायां शोभनत्वेनाशोभनत्वेन वा विशेषणेन विशिष्टे वस्तुन्युपमेयरूपे सत्यविद्यमानमेव वस्त्वन्तरमुपमानलक्षणं समं समानमारोप्यते सापरान्योत्प्रेक्षा। ननु यद्यविद्यमानं कथं सममित्यारोपस्तस्येत्याह-उपपत्त्या युक्त्या संभाव्यं सावसरत्वात्संभावनायोग्यं यत इत्यर्थः ॥ उदाहरणम् अतिघनकुङ्कुमरागा पुरः पताकेव दृश्यते संध्या । उदयतटान्तरितस्य प्रथयत्यासन्नतां भानोः ॥ ३७ ॥ अतिघनेति । अत्र विशिष्टे संध्याख्ये वस्तुन्यसदेव वस्त्वन्तरं पताकाख्यं साम्यादारोपितम् । तच्च युक्त्या संभाव्यम् । यतो रविरथे पताकया भाव्यम् , साप्युदयाचलव्यवहितस्य रवेदृश्यमाना सती नैकट्यं प्रकटयति । अथ यत्र साम्यमात्रे सति विनैवोपपत्त्या संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः । यथा-'यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥' तथा—'आवर्जिता किंचिदिव स्तनाभ्याम्' इत्यादिषु । अत्र ह्यकालसंध्यादीनां संभावने न काचिदुपपत्तिर्निर्दिष्टा । न चाप्युपमाव्यवहारः । यतः सिद्धमुपमानं भवति । न वा काले सिद्धत्वम् । तथा यद्यर्थाश्रवणानाप्युत्पाद्योपमाव्यवहारः । न चाप्यतिशयोत्प्रेक्षा संभवोऽस्ति । अत्रोच्यते-उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा । एवम् ‘पृथिव्या इव मानदण्डः, इत्यादावपि द्रष्टव्यम् । सूत्रकारेणानुक्तं भेदान्तरमपि चास्यां विद्यते-'कर्तुरुपमानयोगः सत्यौपम्येऽनिवादिरपि यत्र । संभाव्यतेऽनुरोधाद्विज्ञेया सा परोत्प्रेक्षा ॥' यथा-'यः करोति वधोदो निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः॥' तथा-'अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थले कमलरोपणं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ अथ रूपकम् यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा । अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥ ३८ ॥ यत्रेति । यत्रोपमानोपमेययोर्गुणानां साम्ये तुल्यत्वे सति विद्यमाने प्रतीतिपथवारिण्या भिदा तयोरैक्यं कल्प्यते तदित्यमुना प्रकारेण रूपकं प्रथमम् । उत्तरत्र समासग्रहणादिह प्रथमशब्देन वाक्यरूपकं विवक्षितम् । उत्प्रेक्षायामप्यभेदो विद्यते,ततस्तन्निरासार्थमाहअविवक्षितसामान्येति। सदप्यत्र सामान्यं न विवक्ष्यते । सिंहो देवदत्त इति । उत्प्रेक्षायां
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy