________________
८ अध्यायः] काव्यालंकारः।
१०७ तु छद्मलक्ष्मव्याजव्यपदेशादिभिः शब्दैरुपमानोपमेययोरभेदो भेदश्च विवक्षित इति । परमार्थतस्तूभयत्राभेद एवेति ॥ उदाहरणम्
साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते ।
नान्यद्भूतसृजा सृष्टं लोके मिथुनमीदृशम् ॥ ३९ ॥ साक्षादिति । सुगममेव ॥ अथ भेदान्तरमाह
उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः ।
यत्तु प्रयुज्यते तद्रूपकमन्यत्समासोक्तम् ॥ ४० ॥ उपसर्जनेति । एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपरं समासोक्तं रूपकम् । समासोपमाया रूपकत्वनिवृत्त्यर्थमाह-उपसर्जनमप्रधानमुपमेयं यत्र। यथा--दुर्जन एव पन्नगो दुर्जनपन्नगः । समासोपमायां तूपमानमुपसर्जनम् । यथाशशीव मुखं यस्याः सा शशिमुखी । तुशब्दः समुच्चये । उभयग्रहणं नियमार्थम् । उभयोरेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः ॥ सामान्य रूपकभेदद्वयमेतदभिधायेदानीमेतद्विशेषानाह
सावयवं निरवयवं संकीर्ण चेति भिद्यते भूयः ।
द्वयमपि पुनर्द्विधैतत्समस्तविषयैकदेशितया ॥ ४१ ॥ सावयवमिति । एतद्वाक्यसमासलक्षणं रूपकद्वयं भूयः सावयवं निरवयवं संकीर्ण चेत्यमुना प्रकारेण त्रिधा भिद्यते । पुनश्च द्वयमपि वाक्यसमासलक्षणमेतद्रूपकं समस्त. विषयतयैकदेशितया च द्विधा भिद्यते । न तु सावयवादिभेदभिन्नं सत् । निरवयवादिषु सर्वत्रासंभवात् । तेनात्र भेदद्वये सावयवादिप्रभेदानुप्रवेशो यथासंभवमेव भवतीति ॥ इदानीमेषामेव लक्षणमाह-तत्र सावयवम्
उभयस्यावयवानामन्योन्यं तद्वदेव यत्क्रियते।।
तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात् ॥ ४२ ॥ उभयस्येति । उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यद्रूपणं तद्वदेवेति समस्तोपमावस्क्रियते तत्सावयवं रूपकम् । यथा समस्तोपमायामुपमानोपमेययो. स्तदवयवानां चौपम्यम् , एवमिहापि रूपणमित्यर्थः । तच्च सहजैराहायरुभयैश्च तैरवयवैस्त्रेधा स्यात्रिविधं भवेत् ॥ उदाहरणम्
ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरैर्दलैश्च तासां नवबिसनालानि बाहुलताः ॥ ४३ ।।