________________
१०८
काव्यमाला ।
ललना इति । एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च । आहार्यावयवं तु यथा - 'गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा ॥ उभयावयवं यथा - 'यस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति प्रहो नित्यं तु स्मृतिरङ्कुरः सुतसुहृज्ज्ञात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वत्स्तुतिसेवया परशुना तृष्णालता लूयताम् ॥' इदानीं समासरूपकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम् ग्रन्थकृता तु नोदाहृतम् । तत्थं यथा - 'वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः । मुखकमलमनुस्मरतः स्मरहतमनसः कुतो निद्रा' ॥
समासरूपकाहार्योदाहरणमाह
विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले । विलसति शशिकलहंसः प्रावृड्डिपदपगमे सद्यः ॥ ४४ ॥
विकसितेति । अत्र गगनमुपमेयं सर उपमानम् । तयोश्च समासः । ताराज्योत्स्नाशशिनो गगनस्याहार्यावयवाः । उपमानस्य तु ते यादृशास्तादृशा भवन्तु । नात्र तद्विवक्षा । प्रावृड्डिपदिति रूपकमपि नोदाहरणत्वेन योज्यम् । अवयवत्वाभावात् ॥ अथ समासरूपको भयोदाहरणमाह
अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः ॥ ४५ ॥
अलीति । अत्र वाप्य उपमेया विलासिन्य उपमानभूताः । तयोः समासोऽत्र । वाप्या अलिकुलचक्रवाकहंसाः । कृत्रिमा अवयवाः । सरसिजानि तु सहजा विवक्षिताः । विलासिन्यश्च यथातथा भवन्तु । न तद्विवक्षा ॥
अथ निरवयवमाह -
मुक्त्वावयवविवक्षां विधीयते यत्तु तत्तु निरवयवम् ।
भवति चतुर्धा शुद्धं माला रशना परम्परितम् ॥ ४६ ॥
मुक्त्वेति । यत्त्ववयवविवक्षां त्यक्त्वा विधीयते तन्निरवयवं रूपकम् । तच्चतुर्धा । कथमित्याह - शुद्धमित्यादि ॥
अथ तलक्षणम् -
शुद्धमिदं सा माला रशनाया वैपरीत्यमन्यदिदम् । यस्मिन्नुपमानाभ्यां समस्यमुपमेयमन्यार्थे ॥ ४७ ॥
शुद्धमिति । इदमिति 'मुक्त्वावयवविवक्षाम्' इति पूर्वलक्षणकं सा मालेति । यत्रैक वस्त्वनेकसामान्यम् | ‘उपमीयेतानेकै रुपमानैरेकसामान्यैः' इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः । रशनाया वैपरीत्यमिति । यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युप