SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ८ अध्यायः] काव्यालंकारः। १०९ मालक्षणवैपरीत्यम् । रूपकरशनायां हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति । अन्यत्परम्परितमिदं वक्ष्यमाणलक्षणकम् । तदेव लक्षणमाह-यस्मिन्नित्यादि । यत्र द्वाभ्यामुपमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमान समस्यते । यत्र हि द्वे उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते । यथारजनिपुरंध्रिरोध्रतिलकश्चन्द्र इति ॥ एतेषामुदाहरणानि चत्वारि यथाक्रममाह कः पूरयेदशेषान्कामानुपशमितसकलसंतापः । अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन् ॥ ४८॥ क इति । अत्र राजा शाखादिभिरवयवैविना कल्पद्रुमेण रूपितः । एतच्छुद्धं वाक्यरूपकम् । समासरूपकं तु यथा-'नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि। त्वत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण ॥ मालामाह कुसुमायुधपरमास्त्रं लावण्यमहोदधिर्गुणनिधानम् । आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम् ॥ ४९ ॥ कुसुमेति । अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगात्कुसुमायुधपरमास्त्रादिभिरनेकैरुपमानैरेकैकधर्मयुक्त रूपिता । अत्र वाक्यमेव । रशनापरम्परितयोः समास एव संभव इति ॥ . रशनारूपकमाह किसलयकरैलतानां करकमलैः कामिनां जगजयति । नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥ ५० ॥ किसलयकरैरिति । अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीनामुपमेय इति ॥ परम्परितमाह स्मरशबरचापयष्टिर्जयति जनानन्दजलधिशशिलेखा । लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम् ॥ ५१ ॥ स्मरेति । अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शबरचापयष्टिभ्यामन्यस्य नायिकालक्षणस्य पदार्थस्यार्थे समस्यते । स्मरस्य शबर उपमानम् , नायिकायाश्चापयष्टिः । स्मर एव शबरस्तस्य नायिका चापयष्टिः । यथा शबरश्चापयष्टया हरिणादीन्विध्यति, एवं स्मरस्तया कामिन इत्यर्थः । एवमन्यत्रापि योज्यम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy