SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११० . काव्यमाला। संकीर्णमाह उपमेयस्य क्रियते तदवयवानां च साकमुपमानैः । उभयेषां निरवयवैर्विज्ञेयं तदिति संकीर्णम् ॥ ५२ ॥ - उपमेयस्येति । उपमेयस्योपमेयावयवानां च सहजाहार्योभयरूपाणामुपमानैरुभयेषामपि निरवयवैः सह यद्रूपणं क्रियते तत्संकीर्ण नाम ज्ञेयम् । एवं च सहजाद्यवयवभेदजत्वात्रिधा भवति । उभयेषामित्यनेनोपमेयस्तदवयवाश्च निर्दिश्यन्ते ॥ उदाहरणानि लक्ष्मीस्त्वं मुखमिन्दुर्नयने नीलोत्पले करौ कमले । केशाः केकिकलापो दशना अपि कुन्दकलिकास्ते ॥ ५३ ।। · लक्ष्मीरिति । नायिकात्रोपमेया। तदवयवाश्च सहजा मुखादयः । लक्ष्मीचन्द्रप्रभृतीनि चोभयेषामुपमानानि निरवयवानि । नहि लक्ष्म्याश्चन्द्रादयोऽवयवाः । उपमेयं सावयवमुपमानेषु विपर्यय इति संकीर्णत्वमिति ॥ अथाहार्यावयवोदाहरणमाह सुतनु सरो गगनमिदं हंसरवो मदनचापनिर्घोषः । कुमुदवनं हरहसितं कुवलयजालं दृशः सुदृशाम् ॥ ५४ ॥ सुतन्विति । हे सुतनु, इदं सरः शरदि निर्मलत्वाद्विस्तीर्णत्वाच्च गगनसदृशमित्यर्थः । अत्र च गगनकामधनुर्ध्वनिहरहसिततरुणीदृशो निरवयवोपमानानि । उपमेयं सरः । तदवयवा हंसरवकुमुदवनकुवलयजालान्याहार्याणि विवक्षितानीति ॥ अथोभयावयवमाह इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । खड्गः कृतान्तरसना जिह्वा च सरखती राजन् ॥ ५५ ॥ इन्द्र इति । अत्र राजोपमेयः । तदवयवाश्च बाहुखड्गजिह्वाः सहजाहार्याः । इन्द्रजयलक्ष्मीद्वारतोरणस्तम्भादीनि निरवयवोपमानानि । एतेषु वाक्यभेद एवेति ॥ समस्तविषयरूपकं निरूप्येदानीमेकदेशिरूपकमाह उक्तं समस्तविषयं लक्षणमनयोस्तथैकदेशीदम् ।। कमलाननैनलिन्यः केसरदशनैः स्मितं चक्रुः ॥ ५६ ॥ उक्तमिति । अनयोर्वाक्यसमासरूपकयोर्यत्समस्तविषयं लक्षणं तत्सावयवं रूपयद्भिरुक्तम् । तथैकदेशीदमार्योत्तरार्धेनोदाह्रियते । यथा-कमलेत्यादि । अत्रावयवानामेव कमलकेसराणां मुखदशनै रूपणं कृतम् , न तु पद्मिन्या अङ्गनयेत्येकदेशित्वमिति । अन्यदपि रूपकं संगतं नाम विद्यते । यत्र संगतार्थतया रूप्यरूपकभावः । यथा कालिदासस्य-'रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरो
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy