________________
८ अध्यायः ]
काव्यालंकारः ।
.१.११
दधे ॥' अत्र न सावयवादिव्यपदेशः । तत्वेदमन्तर्भवतीत्युच्यते - सामान्ये रूपकलक्षणमभिधाय तस्य वाक्यसमासभेदौ व्यापकावुक्तौ । तयोश्च सावयवादिभेदा यथासंभवं योज्याः । ततस्तस्मिन्मूलभेदद्वये संगतायनुक्तभेदानामन्तर्भावः ॥
अथापह्नुति:
अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि । उपमानमेव सदिति च विज्ञेयापहुतिः सेयम् ॥ ५७ ॥
अतिसाम्यादिति । यस्यामुपमानोपमेययोरत्यन्तसाम्यादुपमेयं प्रस्तुतं वस्त्वविद्यमानं कथ्यते, उपमानमेव सत्तया, सेयमपह्नुतिर्नाम । उत्प्रेक्षायां व्याजादिशब्दैरुपमेयस्य सत्त्वमप्युच्यते, इह तु सर्वथैवापह्नव इति विशेषः ॥
उदाहरणम्
नवबिस किसलयकोमलसकलावयवा विलासिनी सैषा । आनन्दयति जनानां नयनानि सितांशुलेखेव ॥ ५८ ॥
नवेति । अत्रातिसादृश्याद्विल। सिनीमुपमेयमपह्नुत्य शशिकलाया उपमानस्यैव सद्भावः कथितः ॥
अथ संशयः
वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः ।
प्रतिपत्तुः सादृश्यादनिश्वयः संशयः स इति ॥ ५९ ॥
वस्तुनीति । यत्रैकस्मिन्वस्तुन्युपमेये प्रतिपत्तुरनेकविषयः सादृश्यात्संदेहो भवति, अनिश्चयान्तः स इत्येवंप्रकारः संशयनामालंकारः । तुर्विशेषे ॥
उदाहरणम्—
किमिदं लीनालिकुलं कमलं किं वा मुखं सुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् ॥ ६० ॥ किमिति । अत्रैकस्मिन्मुखे कमलमुखविषयः सादृश्यादनिश्चयसंशयः ॥
प्रकारान्तरमाह-
उपमेये सदसंभव विपरीतं वा तथोपमानेऽपि ।
यत्र स निश्चयगर्भस्ततोऽपरो निश्चयान्तोऽन्यः ॥ ६१ ॥
उपमेय इति। यत्रोपमेये यद्वस्तु नैव संभवति तत्सत्कथ्यते, विपरीतं वा यत्सत्तदसंभवि कथ्यते, अथोपमाने यदसंभवि तत्सत्, यच्च सत्तदसंभवि कथ्यते सनिश्चय गर्भाख्यः संशयो भवति । ततोऽन्यथा तु यत्र पर्यन्ते निश्चयो भण्यते सोऽन्यो निश्चयान्ताख्यः संशयो द्वितीयः । पूर्वोक्तं सामान्यं संशयलक्षणमुभयत्र योज्यम् ॥