Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
८ अध्यायः काव्यालंकारः।
११९ त्वयीति । अत्रार्थविशेषो नायिकामनोलक्षणः पूर्व कान्तदर्शनानितिधर्मयुक्तो यादृशो निर्दिष्टः पुनस्तादृशमेव चन्द्रदर्शनात्कुमुदं विकासयुक्तमिति ॥ अविवक्षितोदाहरणम्
लोकं लोलितकिसलयविषवनवातोऽपि मत मोहयति ।
तापयतितरां तस्या हृदयं त्वद्गमनवार्तापि ॥ ९६ ॥ लोकमिति । अत्राप्राकरणिकस्य विषवनवातस्य मोहकत्वधर्मयुक्तस्य पूर्वमुपन्यासः । पश्चात्प्रस्तुतस्य तापकारित्वयुक्तस्य [गमनवृत्तस्य अर्थवैधर्येण दृष्टान्तः कथं नोक्तः । असंभवादिति ब्रूमः । यत्र हि विशिष्टोऽर्थो विधर्मकश्च दृष्टान्तस्तादृशं लक्ष्यं न पश्यामः। दृश्यते चेत्तदा समुच्चय एव ज्ञेयः॥ अथ पूर्वम्
यत्रकविधावौँ जायेते यौ तयोरपूर्वस्य । - अभिधानं प्राग्भवतः सतोऽभिधीयेत तत्पूर्वम् ॥ ९७ ॥
यत्रेति । यत्र द्वावर्थावुपमानोपमेयलक्षणावेकविधौ तुल्यकर्मको यौ जायते भवतस्तयोर्मध्यादपूर्वस्य सह पश्चाद्भाविनो वार्थस्योपमेयस्य प्राक्पूर्व भवतः सतोऽभिधानं क्रियेत तत्पूर्व नामालंकारः॥. उदाहरणम्
काले जलदकुलाकुलदशदिशि पूर्व वियोगिनीवदनम् ।
गलदविरलसलिलभरं पश्चादुपजायते गगनम् ॥ ९८ ॥ काल इति । अत्रार्थों गगनवदनलक्षणौ । तत्र वदनमुपमेयम् । तच्च गगनसमकालं पश्चाद्वा गलत्सलिलभरं भवति । अथ च विरहासहत्वप्रतिपादनार्थ प्रागुक्तम् ॥ अथ सहोक्तिः
सा हि सहोक्तिर्यस्यां प्रसिद्धदूराधिकक्रियो योऽर्थः ।
तस्य समानक्रिय इति कथ्येतान्यः समं तेन ॥ ९९ ॥ सेति । इति वक्ष्यमाणप्रकारेण सा सहोक्तिर्नामालंकारः । यस्यां प्रसिद्धा दूरमतिशयेनाधिका क्रिया यस्य स तथाविध उपमानलक्षणो योऽर्थस्तेन सार्धमन्य उपमेयार्थस्तस्योपमानस्य समानक्रिय इत्यमुना प्रकारेण कथ्यत इति । अथ वास्तवसहोक्तेरस्याश्च को विशेषः । उच्यते-तत्र कार्यकारणभाव औपम्याभावश्च समस्ति । अस्यां तु तद्विपर्ययः॥ उदाहरणमाह
मधुपानोद्धतमधुकरमदकलकलकण्ठदीपितोत्कण्ठाः। सपदि मधौ मिजसदनं मनसा सह यान्त्यमी पथिकाः ॥ १० ॥

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188