Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
४०
काव्यमाला।
भाषाश्लेष इति । कीदृशानि । सुव्यक्तं स्फुटं यथा भवत्येवं विविक्ताः पृथगुपलभ्यमानविवेका भिन्ना द्वित्राद्या भाषा येषु तानि तथाविधानि ॥ तत्र संस्कृतप्राकृतश्लेषोदाहरणम्
सरसबलं स हि सूरोऽसङ्गामे माणवं धुरसहावम् ।
मित्तमसीसरदवरं ससरणमुद्धर इमं दबलम् ॥ ११ ॥ सरसबलमिति । कश्चित्कंचिदाह-स सूरो रविरिमं तं माणवं रोगिलात्कुत्सितमनुध्यमसीसरत्सारयामास । गतियुक्तं चकारेत्यर्थः । कीदृशम् । सरसं गतिलाभात्प्रत्यग्रं बलं शक्तिर्यस्य तं तथाभूतम् । हि स्फुटम् । क सति पूर्वमसीसरदसङ्गामे न विद्यते सङ्गो यत्रासावसङ्गः स चासावामश्च तस्मिन् । असंपर्कयोग्ये रोगे सतीत्यर्थः । पुनः कीदृशं माणवम् । धुरसहावं धुरि प्रथममसहासमा अवा रक्षितारो वैद्या यस्य । पूर्व वैद्यत्यक्तमित्यर्थः । सूरः कीदृशः । मिन्मेद्यति स्निह्यति । कृपणेषु दयापर इत्यर्थः । कीदृशम् । तमवरं सरोगवादश्रेष्ठम् । तथा दवं लातीति दवलमुपतापयुक्तम् । कीदृशः । ससरणमुद्धरः सह सरणेन ज्ञानेन वर्तन्ते ये ते ससरणा योगिनस्तेषां मुदं हर्षे धारयति पुष्णातीति कृत्वेति संस्कृतवाक्यार्थः । प्राकृतस्य तु-काचिद्भर्तारमुद्दिश्य सखीमाह-हे सखि, स शूरोऽस्मद्भर्ता मित्रं सुहृदं सङ्ग्रामे रण उद्धरति रक्षति । कीदृशम् । शरैर्बाणैः शबलं कर्बुरम् । तथा मानेन गर्वेण बन्धुरो रम्यः स्वभावो यस्य तं तथाभूतम् । तथासीश्वराणां खड्गयोधिनां दवरमुपतापदम् । तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम् । यद्येवंविधं तत्किमिति तेनोद्धियत इत्याहमन्दबलं मन्दमसमर्थ बलं यस्य तं तथाभूतम् । बहुयीधनादक्षमसैन्यमिति ॥ इदानीं संस्कृतमागध्युदाहरणम्
कुलला लिलावलोले शलिलेशे शालशालिलवशूले ।
कमलाशवलालिबलेऽमाले दिशमन्तकेऽविशमे ॥ १२ ॥ कुलेति । कश्चिज्जातसंसारभयो वक्ति-एवंविधेऽन्तके मृत्यौ सति ए विष्णौ विषये या दिमार्गस्तां दिशमविशं प्रविष्टोऽस्मि । कीदृशेऽन्तके । कुलानि लालयन्ति पोषयन्ति तच्छीलाः कुललालिनः सत्पुरुषास्तेषां लावे छेदे कर्तव्ये लोलो लम्पटो यस्तस्मिन् । तथा शलन्तीति शलाः सोद्यमास्ते विद्यन्ते यत्र देशे स शली । यद्वा शलं खड्गकोषबन्धोऽस्ति येषां ते शलिनः खड्गयोधास्ताल्लिशत्यल्पीकरोतीति शलीलेशस्तस्मिन् । तथा शालैऍहैः शालन्ते श्लाघन्त इत्येवंशीलाः शालशालिनस्ताल्लुनातीति शालशालि. लवः स चासौ शूलं च । पीडाकरत्वात् । तथा कमला लक्ष्मीस्तस्याः शवा दरिद्रा
१. प्राकृतच्छाया-शरशबलं सखि शूरोऽसङ्ग्रामे मानबन्धुरस्वभावम् । मित्रमसीश्वरदवरं सशरणमुद्धरति मन्दबलम् ॥'. २. मागधीछाया-'कुररालिरावरोलं सलिलं तत्सारसालिरवशूरम् । कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥'.

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188