Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 99
________________ ९४ काव्यमाला | क्षीण इति । अत्र शश्युपमानं क्षीणोऽपि वृद्धिगुणयुक्तो निर्दिष्टः । यौवनं तूपमेयं क्षयदोषयुक्तमिति ॥ अथान्योन्यमाह - यत्र परस्परमेकः कारकभावोऽभिधेययोः क्रियया । संजायेत स्फारिततत्त्वविशेषस्तदन्योन्यम् ॥ ९१ ॥ यत्रेति । यत्राभिधेययोः पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्त्रादिकारकत्वं संजायेत । कीदृशः । स्फारितः परिपोषितस्तत्त्वविशेषो विशिष्टधर्मो येन स तथाभूतः । तदन्योन्यमलंकारः । परस्परग्रहणं 'सिंहः प्रसेनमवधीसिंहो जाम्बवता हतः' इत्यन्योन्यनिवृत्त्यर्थम् । एकग्रहणं तु 'कृष्णद्वैपायनं पार्थः सिषेवे शिष्यवत्ततः । असावध्यापयेत्तं तु विद्यां योगसमन्विताम् ॥' इत्येतन्निवृत्त्यर्थम् ॥ उदाहरणमाह रूपं यौवनलक्ष्म्या यौवनमपि रूपसंपदस्तस्याः । अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः ॥ ९२ ॥ रूपमिति । अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः । तेन च रूपस्य दीर्घनयनत्वादिको विशेषः स्फारितः । यौवनस्यापि वपुर्विभागश्चतुरस्रशोभादिकत्वविशेषः स्फारितः ॥ अथोत्तरम् - उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥ ९३ ॥ उत्तरेति । उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निश्चीयन्ते तदुत्तरम् । तथा प्रश्नाश्चोत्तरं यत्र स्यात्तदप्युत्तरम् । इति द्विवेदम् । अस्य चाद्योत्तरभेदस्यानुमानस्य चायं विशेषो यत्तत्र सामान्येन हेतुहेतुमद्भावः साध्यते । अत्र तु न हेतुहेतुमद्भावो वाक्ये निबध्यते । किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति ॥ उदाहरणम् 1 भण मानमन्यथा मे भ्रुकुटिं मौनं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखीभवितुम् ॥ ९४ ॥ भणेति । अत्रास्मान्नायिकोक्तादुत्तरात्सखीवचनान्युच्चीयन्ते । नूनमस्याः सखीभिरुक्तं यथा सापराधस्य प्रियस्य भ्रुकुटिमौनपराङ्मुखी भावान्कुरुष्वेति ॥ द्वितीयोदाहरणमाह किं स्वर्गादधिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः । सौराज्यमदुर्भिक्षं सत्काव्यरसामृताखादः ॥ ९५ ॥

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188